________________
शिल्परने
उत्तरभागः অথ বৰিয। अथेन्द्रायन्यदैवतध्यानम् । पूर्वमिन्द्रः। उपवने मरुतामथ नन्दने
ब(त)तिगेहलसल्ललनागणे । कनकभासितभूमितलेऽश्चिते
विबुधशालिशतैरखिलार्थदैः ॥ १॥ कलितहेमलतानिकरोज्ज्वलैः
कलनिनादविहङ्गभनोरमैः । कनकपङ्कजसौरभवाहिना
सुरसरिन्मरुता च मनोरमे ॥२॥ सुरुचिरं मणिमण्डपमुज्ज्वलं
विबुधपादपपञ्चकमध्यगम् । मणिमयं च तदन्तरभूतले . द्विरदवैरिमहासनम तम् ॥ ३ ॥ उपरिसंस्थितमुज्ज्वलभूषणं
तरुणभास्करकोटिसमप्रभम् । महितरत्नकिरीटमनोहरं
मणिमयूखविराजितकुण्डलम् ॥ ४ ॥ मसृणकुङ्कुमपङ्कपरिस्फुर
त्तिलकशोभिललाटतटान्तरम्। कमललोचनमुन्नतनासिकं
मुकुरगण्डतलं मधुरस्मितम् ॥ ५ ॥ १. 'देवताध्या' घ. पाठः.