________________
[उत्तरभाग
शिल्परत्ने मणिमकुटविचित्रालङ्कृताकल्पजालै.
भवतु भुवनमाता सन्ततं श्रीः श्रिये वः ॥६३ ॥ त्रिपुटा
नवकनकभासुरोवींविरचितमणिकुट्टिमे सकल्पतरौ । रत्नवरबद्धसिंहासननिहितसरोरुहे समासीनाम् ॥ ६४॥ आबद्धरत्नमकुटां मणिकुण्डलोद्य
केयूरकोर्मिरशनाह्वयनूपुराढ्याम् । ध्यायेद् धृताब्जयुगपाशकसाङ्कुशेक्षु
चापां सपुष्पविशिखां नवहेमवर्णाम् ॥ ६५ ।। चामरमुकुरसमुद्गकताम्बूलकरङ्कवाहिनीभिश्च । दूतीभिः समाभिवृतां पश्यन्तीं साधकं प्रसन्नदृशा ॥६६॥ त्रिपुराआताम्रार्कायुताभां कलितशशिकलारञ्जितप्तां त्रिनेत्रां
देवी पूर्णेन्दुवक्रां विधृतजपपटीपुस्तकाभीत्यभीष्टाम् । पीनोत्तुङ्गस्तनात वलिलसितविलनामसृक्पङ्कराजन्मुण्डस्रमण्डिताङ्गीमरुणतरदुकूलानुलेपां नमामि ॥६
अथ भूमिः-- मुख्याम्भोजे निविष्टारुणचरणतला श्यामलाङ्गी मनोज्ञा
चञ्चच्छाल्यग्रचुम्बच्छुकलसितकरैप्रान्तनीलोत्पला च । रक्ताकल्पाभिरामा मणिमयमकुटा चित्रवस्त्रा प्रसन्ना दिश्याद् विश्वम्भरा वः सततमभिमतं वल्लभा कैटभारेः
[॥६॥ १. 'यै', २. 'मि ॥ भू', ३. 'रा' घ. पाठः.