________________
शक्तौ श्रीसूक्तम्]
चतुर्विंशोऽध्यायः । १४३ इन्दुकलाकलनोज्ज्वलमौलिमारमदाकुलितायुगनेत्रा । शोणितसिन्धुतरङ्गितपोतद्योतितभानुदलाम्बुजसंस्था॥५८॥ दोधृतडाडिमसायकपाशा साङ्कशचापकपालसमेता। शोणदुकूलविलेपनमाल्या शोणतरा भवतोऽवतु देवी ॥५॥ नित्यक्लिन्ना - बन्धुकारुणविग्रहां त्रिनयनां बालेन्दुचूडामणिं
पाशाभीतिकपालसाङ्कुशलसाहुं मनोज्ञाननाम् । रक्ताम्भोरुहविष्टरां मदवशादाघूर्णमानेक्षणां
रक्तालेपनवस्त्रदामलसितां वन्दे सदा पार्वतीम् ॥ ६० ॥ अपिच
मध्येसुधामयपयोधिविराजमान
द्वीपप्रवालमणिभूमितलं विशालम् । तस्मिन् मणिप्रवरानिर्मितमण्डपान्तः
सिंहासनोपरिगते कमले निषण्णाम् ॥ ६१ ॥ पाशं कल्पलतां कपालमभयं दानाङ्कुशौ वल्लकी
कोणाख्यौ दधतीमयुग्मनयनां बन्धूकपुष्पारुणाम् । आरोमांशुकभूषणोज्ज्वलतनुं बालेन्दुमौलि परा
माधां दिव्यजनानतामनुपमां वन्दे सदा पार्वतीम् ॥ ६२ ।। श्रीसूक्तम् -
अरुणकमलसंस्था तद्रजापुञ्जवर्णा
करकमलधृतेष्टाभीतियुग्माम्बुजा च । १. 'हां' घ. पाठः. २. 'रा' क. ख. पाठः. ३. 'नलिनसं' घ. पाठः,