________________
उत्तर
१४२ शिल्परत्ने
उत्तरभागः गौरी गौराङ्गरागाम्बररुचिरतर्नु चिन्तयेन्मन्त्रमेनं जप्यात् कान्त्यै समृद्ध्यै सुविपुलयशसे लोकसंरञ्जनाये
[॥ ५३॥ अथ प्राणशक्तिः --- रक्ताम्भोधिस्थपोतोल्लसदरुण सराजोधिरूढा कराग्रैः
पाशं कोदण्डमिक्षुवमलिगुणमप्यङ्कुशं पञ्च बाणान् । बिभ्राणासृक्कपालं त्रिनयनलसिता पीनवक्षोरुहाट्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा वः
[॥ ५४ ॥ अथ अश्वारूढापाशेनाबध्ये साध्यं स्मरशरविवशां वामदोष्णानयन्ती
सौवर्णी वेत्रयाष्टिं निजकरकमलेनापरेणादधानाम् । रक्तां रक्ताङ्गरागाम्बरकुसुमयुतामश्वसंस्थां प्रसन्नां
देवी बालेन्दुचूडां मनसि मुनि तां पार्वती भावयामि
वज्रप्रस्तारिणी-- रक्तपयोनिधिगतमणिपोतस्फुरितरविच्छदकमलनिषण्णाम् । इक्षुशरासनपुष्पशराभयवरसृणिडाडिमसायकपाशान् ॥५६॥ दधतीमरुणामयुगलनेत्रामरुणविलेपनमाल्यदुकूलाम् । हिमकरलेखाकलितकपर्दा हिमगिरितनयामनिशमुपासे
[॥ ५७ ॥ अपिच -
१. 'य । अश्वा', २. 'द्धसाध्यां स्म' ध. पाठः. ३. 'न' ख. पाठः.