________________
शक्ती स्वयंवरा] चतुर्विंशोऽध्यायः । अथवा
दोभिश्चतुर्भिर्बिभ्राणं वज्रशक्तिवराभयान् । त्रैलोक्यनाथं वरदं देवेन्द्र मण्डपाश्रितम् ॥ ४८१ ॥
तस्याङ्कसंस्थामिन्द्राणी मनोहरतराकृतिम् ॥ ४५ ॥ अथ स्वयंवराबालार्कायुतसप्रभां करतले लोलम्बमालाकुलां __ माला सन्दधतीं मनोहरतर्नु मन्दस्मितोद्यन्मुखीम् । मन्दं मन्दमुपेयुषी वरयितुं शम्भु जगन्मोहिनी
वन्दे देवमुनीन्द्रवन्दितपदामिष्टार्थदा पार्वतीम् ॥ ५० ॥
अपिचहेमाभां मतिवागतीतगुणशीलानल्पशिल्पाकृति
प्रेमारोहमनोहरां करलसत्कल्याणदामाञ्चिताम् । श्यामामीश्वरमुद्यतां वरयितुं त्रैलोक्यसम्मोहिनी
कामापादनकल्पवल्लिमनिशं वन्दे परां देवता ॥ ५१ ॥ अथेच, करधृतवरमाला सर्वरत्नाङ्गभूषा
निखिलनयनचेतोहारिरूपायवेषा । भवतु भवदभीष्टप्राप्तये शैलकन्या
पुरुषयुवतिवश्याकृष्टिनित्यप्रगल्भा ॥ ५२ । अथवाउद्यद्राकाशशाङ्कान्तरपरिविलसत्पद्मसंस्थां त्रिनेत्रां दोभिः पाशेक्षुचापाङ्कुशकुसुमशरान् बिभ्रतीमिन्दुचूडाम्।
१. 'म् । स्व', २. 'नं', ३. 'म् । हे' घ. पाठः. ४. 'म् । क' ख. पाठः. ५. 'श्र, क' क. ग. पाठः. ६. 'ता' घ. पाठः.