________________
शिल्परने
उत्तरमागः मनोहरतराभोगभरमन्थरगामिनीम् । हारौवेयरशनानूपुराद्यैरलङ्कृताम् ॥ ३९ ॥ उत्तंसितेन मणिना चिन्तापूर्वेण सन्ततम् । प्लाव्यमानाङ्गलतिका रत्नजालानि वर्षता ॥ ४० ॥ आन्दोलयन्ती हस्तेन लीलापमं शनैः शनैः । शङ्खपद्मनिधिभ्यां च वामदक्षिणपार्श्वयोः ॥४१॥ वसुप्रवाहं वर्षद्भ्यां सेव्यमानां सदा मुदा । रम्भया च सितच्छत्रं रत्नदण्डं शशिप्रभम् ।। ४२ ।। काञ्चनस्रावि संगृह्य सेव्यमानां प्रसन्नया । घृताचीसहजन्याभ्यामुभयोः पार्श्वयोरपि ॥४३ ।। सविलासं वीज्यमानां व्यजनाभ्यां शनैः शनैः। मन्दं मन्दं दोलताभ्यां गृहीत्वा पादपङ्कजम् ।। ४४ ॥ संवाह्यन्तीमुर्वश्या निजाङ्क संनिवेश्य च । ताम्बूलवीटिका हस्ते गृहीत्वा पार्श्वसंस्थया ॥ ४५ ॥ भक्त्या मेनकयाजस्रं सेव्यमानां मनोज्ञया । अमृतासारमनिशं दुह्यन्त्या हृद्यरूपया ।। ४६ ॥ संसेव्यमानामाभितः सुरभ्या च सवत्सया । अशेषयोषित्सौभाग्यलक्ष्मीमेवंविधाकृतिम् ॥ ४७ ॥ एवं ध्यात्वा वरारोहामिन्द्राणीमीप्सितार्थदाम् । १. 'म' घ. पाठः,