________________
१२६ शिल्परत्ने
[उत्तरभार्गः हैमाभिः स्वप्रभाभिस्त्रिभुवनमखिलं भासयन् वासुदेवः पायाद् वः पायसाशी नवनवनवनीतामृताशी वशी सः
[॥ १२ ॥ धन्वन्तरिः - क्षीराब्धेर्मथ्यमानादमृतमभिलषद्बुद्धिभिर्वैबुधौधै
रुत्तीर्णः पीतवासा घनरुचिररुचिर्विश्वसन्त्राणहेतुः । बिनद् दोभिश्चतुर्भिर्जलभवमभयं चामृतं शस्त्रयन्त्रं
योऽसौ धन्वन्तरिनः सकलगदभयादादिदेवः सदाव्यात्
तद्भेदः -
अरिसदरजलूकारत्नपीयूषकुम्भ
प्रतिघटितकरान्तः कान्तपीताम्बरायः । तनुवसनविराजन्मौलिरारोग्यदायी
शतमखमणिवर्णः पातु धन्वन्तरिनः ॥ १४ ॥ हयग्रीवः - क्षीरोदन्वदुदारवीचिवलयैरत्यन्तशीतीकृते
हैमाश्वत्थसुरद्रुमे मणिमये सिंहासने प्रोज्ज्वले । आसीनं हयवऋमिन्दुवपुषं व्याख्यानमुद्रान्वितं शिष्येभ्यः प्रतिपादयन्तमनिशं शास्त्राणि विद्यामहम्
[॥ १५ ॥ अथ कार्तवीर्यः-- कैलासाद्रिसमप्रभं द्विपपतेः पृष्ठस्थितं भीषणं
नागस्यन्दनवाजिपत्तिनिकरैरापूर्णसैन्यावृतम् । १. 'हम् । का' घ. पाठः. २. 'भ' क. ग. पाठः.