________________
वैष्णवे चतुरक्षरी ]
अथ विदरणनृसिंहः उद्यद्भास्वत्सहस्रप्रभमशनिनिभं त्रीक्षणेक्षा वमन्तं (?) वह्नीनहाय विद्युत्ततिविततसटाभीषणं भूषणैश्च । स्वनखरुचिलसद्वाहुदण्डैरनेकैः
दीप्तैरादीप्तदेहं
संभिन्नं भिन्नदैत्येश्वरमतनुतनुं नारसिंहं नमामि ॥ ८ ॥ तद्भेदः षडक्षरी - अव्यान्निर्व्याजरौद्राकृतिरति विकृतास्योल्लसत्तीक्ष्णदंष्ट्र
त्रयोविंशोऽध्यायः ।
तद्भेदः
――
श्चक्रं शङ्खं च पाशाङ्कुशकुलिशगदादारणाख्या दधानः । रक्ताकारश्च नाभेरध उपरि सितो दिव्यभूषाविशेषो देवोऽर्काग्नीन्दु नेत्रो निखिलसुखकरो नारसिंहश्विरं वैः ||९||
―
१२५
अथ वराहः
जान्वोरापादमुद्यत्कनकमिव हिमप्रख्यमाजानु नाभेः कण्ठादानाभि वह्निप्रभमथ शिरसचागलं नीलवर्णम् । मौ(लिं व्यो ? लेव्यों) माभमाकं करलसदरिशङ्खासिखेटं ग
[दाख्यां शक्तीष्टाभीतियुक्तं प्रणमत वसुधोल्लासिदंष्ट्रं वराहम् ॥ १० ॥
सजलाम्बुवाहनिभमुद्यतदोः परिघं धराधरसमानतनुम् । सितदंष्ट्रिकाघृतभुवं त्वथवा प्रविचिन्तयेत् सपदि कोल[ममुम् ॥ ११ ॥
चतुरक्षरी
श्रीमत्कल्पद्रुमोल्लासितकमललसत्कर्णिकामध्य संस्थस्तच्छाखालम्बिपद्मोदर विगलदसंख्यातरत्नाभिषिक्तः ।
१. 'नरसिं' क. ग. पाठः- २. 'वः ॥ व' घ. पाठः,