________________
शिल्परले
[उत्तरभागः
धृतशङ्ख + चक्रवराब्जगदा कुलदोः परिघं सितपद्मगतम् । वलयाङ्गदहारकिरीटधरं नवकुन्दनिभं प्रणमामि सदा ॥ ३ ॥
S
श्रीकराष्टाक्षरम् - दुग्धाब्धिद्वीपवर्यप्रविलसितसुरोद्यानकल्पद्रुमाधो भद्राम्भोजन्मपीठोपरिगतविनतानन्दनस्कन्धसंस्थः ।
- १२४
दोर्भिद् रथाङ्गं वरदमथ गदापङ्कजे स्वर्णवर्णे भास्वन्मौलिर्विचित्राभरणपरिगतः स्याच्छ्रियै वो मुकुन्दः
[ ॥ ४ ॥
――
सुदर्शनम् - अव्याद् भास्करसत्प्रभाभिरखिला भाभिर्दिशो भासयन् भीमाक्षः क्षरदट्टहासविलसद्दंष्ट्राप्रदीप्ताननः । दोर्भिश्च दरौ गदाब्जमुसलप्रासांव पाशाङ्कुशौ बिभ्रत् पिङ्गशिरोरुहोऽथ भवतश्चक्राभिधानो हरिः ॥ ५ ॥ अथ निग्रहचकं —
शङ्खं चक्रं च चापं परशुमसिमिषं शूलपाशाङ्कुशानीन् विभ्राणं खड्गखेटं हलमुसलगदा कुन्तमत्युग्रदंष्ट्रम् | ज्वालाकेशं त्रिनेत्रं कनकमयलसद्गात्रमत्युग्ररूपं
वन्दे षट्कोणसंस्थं सकलरिपुजनप्राणसंहारचक्रम् ॥ ६ ॥ अथ नृसिंहः - जान्वोरासक्ततीक्ष्णस्वनखरुचिलसद्वाहुसंस्पृष्टकेश
चक्रं शङ्खं च दोर्भ्यां दधदनलसमज्योतिषा भनदैत्यः । ज्वालामालापरीतो रविशशिदहनत्रीक्षणो दीप्तजिह्वो
दंष्ट्रोग्रं धूतकेशं बदनमपि वहन् पातु वो नारसिंहः ॥ ७ ॥