________________
'वैष्णवे गायत्री ]
त्रयोविंशोऽध्यायः ।
अक्षस्रग्वेद पाशाङ्कुशडमरुकखट्वाङ्गशूलान् कपालं बिभ्राणो भीमदंष्ट्रोऽञ्जनरुचिरतनुर्भीतिदश्चाप्यघोरः
[ ॥ २०२ ॥
विद्युद्वर्णोऽथ वेदाभयवरदकुठारान् दधत् पूरुषाख्यः प्रोक्ताः सर्वे त्रिनेत्रा विधृतमुखचतुष्काश्चतुर्बाहवश्च । मुक्तागौरोऽभयेष्टाधिककरकमलोऽघोरतः पञ्चवक्त्र
स्त्वीशो ध्येयोऽम्बुजन्मोद्भवमुररिपुरुद्रेश्वराः स्युः शि[ वान्ताः ॥ २०३ ॥
इति शिल्परत्ने उत्तरभागे ध्याने शेवप्रकरणं नाम द्वाविंशोऽध्यायः ॥
>>
अथ त्रयोविंशोऽध्यायः । अथ वैष्णवप्रकरणम् |
अष्टाक्षरी अघाभं किरीटान्वितमकरलसत्कुण्डलं दीप्तिराजकेयूरं कौस्तुभाढ्यं शबलरुचिरहारं चारुपीताम्बरं च (?) । नानारत्नांशुभिन्नाभरणशतेयुजं श्रीधराश्लिष्टपार्श्व
वन्दे दोः सचकाम्बुरुहदरगदं विश्ववन्धं मुकुन्दम् ॥ १॥
गायत्री
१२३
wwwwwww
ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ २ ॥
१. 'ल्पि', २. 'र', ३. 'चक्र' घ. पाठः.