________________
शिल्परने
वामोरुपीठगतया निजवामहस्त
न्यस्तारुणोत्पलयुजा परिरब्धदेहम् ॥ १९६ ॥
१२२
कालारिः
वामेनोद्यत्तरुणहरिणं पाणिना वामभासा बिभ्रद् बधुतिरपि परेणाकठोरं कुठारम् | वक्षोदेशे त्रिशिखशिखरेणात्र कृत्वान्तकान्तं
तिष्ठन्नीशो जयति शशिनाबद्धकोटीरभारः ॥ १९७ ॥
[उत्तरभागः
किन्नरशिवः
श्मशानस्थो मौनी बहुविधपिशाचैः परिवृतः कपर्दी कौपीनी सुसितभसितोद्धूलिततनुः । त्रिशूलाग्रे कृत्वा निखिलनृपयक्ष्माह्वयहरिं
कपालानौ जुहृद् दहतु दुरितं किन्नरशिवः ॥ १९८ ॥
--
-
रक्षोघ्नः
त्रिशूलं परशुं चैव कपालं डमरूं तथा । बिभ्राणमुग्रवपुषं त्रिनेत्रं चन्द्रशेखरम् ॥ १९९ ॥
दंष्ट्राकरालनिनदभ्रुकुटीकुटिलाननम् । बडवामुखाग्निसदृशं देहन्तं भुवनत्रयम् ॥ २०० ॥
भूतप्रेतपिशाचादीन् भक्षयन्तं महाबलम् । एवं ध्यात्वा जपेन्नित्यं रक्षोहामिं समाहितः ॥ २०१ ॥ अथ सद्योजातादिमूर्तयः
सद्यो वेदाक्षमालाभयवरदकरः कुन्दमन्दारगौरो वामः काश्मीरवर्णोऽभयवरदपरश्वक्षमालो विलासी ।
१.
'व' घ. पाठः.