________________
शैवे शक्तिपञ्चाक्षरी द्वाविंशोऽध्यायः ।
१.२१ अथवा
हावभावललितार्धनारिकं भीषणार्धमथ वा महेश्वरम् । पाशसोत्पलकपालशूलिनं चिन्तयेज्जपविधौ विभूतये
[॥ १९२ ॥ अनुष्टुप् -- अच्छस्वच्छारविन्दस्थितिरुभयकरान्तःस्थितं पूर्णकुम्भं
दोभ्यो वेदाक्षमाले निजकरकमलाम्यां धटौ नित्यपूर्णौ । हाभ्यां तौ च स्रवन्तौ शिरसि शशिकलाबन्धुरे प्लावयन्तौ देहं देवो दधानः प्रदिशतु विशदाकल्पजालः श्रियं वः
[॥ १९३ ॥ संवादम् - धवलनलिनराजचन्द्रमध्ये निषण्णं
करविलसितपाशं साङ्कशं साभयं च । सवरदममलेन्दुक्षीरगौरं त्रिनेत्रं
प्रणमत सुरवक्त्रं मङ्क्ष संवादयन्तम् ॥ १९४ ॥ शक्तिपञ्चाक्षरीमूले कल्पद्रुमस्य द्रुतकनकनिभं चारुपद्मासनस्थं
वामाङ्कारूढगौरीनिबिडकुचभराभोगगाढोपगूढम् । सर्वालङ्कारकान्तं वरपरशुमृगाभीष्टबाहुं त्रिनेत्रं
वन्दे बालेन्दुमौलिं गुहगजवदनाभ्यामुपाश्लिष्टपार्श्वम्
अथवावन्दे हरं वरदशूलकपालहस्तं
साभीतिमद्रिसुतयोज्ज्वलदेहकान्तिम् ।
१., ५. 'अथवेत्यवतारितं पद्यं ध-मातृकायां न दृश्यते. २. 'क', ३. 'चूडं गु', ४. गजवदनगुहाभ्या' घ. पाठः.
___