________________
१२० शिल्परत्ने
(उत्तरमामः सर्वाकल्पाभिरामो धृतपरशुमृगेषुः करैः काञ्चनाभो ध्येयः पद्मासनस्थः स्मरललिततनुः सम्पदे पार्वतीशः
॥१८७॥ दक्षिणामूर्तिःमुद्रां भद्रार्थदात्री सपरशुहरिणां बाहुभिर्बाहुमेकं
जान्वासक्तं दधानो भुजगवरसमाबद्धकक्ष्यो बटाधः । आसीनश्चन्द्रखण्डप्रतिघटितजटः क्षीरगौरस्त्रिनेत्रो दद्यादाद्यैः शुकाचैर्मुनिभिरभिवृतो भावशुद्धिं भवो वः
[॥१८८॥ अघोरःकालाभ्राभः करात्रैः परशुडमरुको खड्गखेटौ च बाणे
वासौ शूलं कपालं दधदतिभयदो भीषणास्यस्त्रिनेत्रः। रक्ताकाराम्बराहिप्रवरघटितगात्रोऽरिनागग्रहादीन् खादन्निष्टार्थदायी भवदनभिमतच्छित्तये स्यादघोरः
॥ १८९॥ मृत्युञ्जयभेदः
अथवामलकमलपुटान्तरितं शिशुवेषभूषणं रुद्रम् । ध्यात्वा जपाद् यथावत् कृतक्लुप्त्या मृत्युनाशनं दृष्टम्
चिन्तामणिःअहिशशधरगङ्गाबडतुङ्गाप्तमौलि
स्त्रिदशगणनताधि + + + स्त्रीविलासः । भुजगपरशुशूलान् खड्गवह्नी कपालं
शरमपि धनुषं + विभ्रदव्याच्चिरं वः ॥ १९१ ॥ १. ति व्यनुष्टुप् । मु' क. ग. पाठः. २. 'धरिशो पि' क. पाठः.