________________
शेवमष्टाक्षरध्यानम् ।] द्वाविंशोऽध्यायः । नानाविभ्रममीप्सितप्रणयिनं भावेन पाशाङ्कुशौ
खट्टाङ्गं च कपालमित्यनुगुणैदौर्भिर्दधानं हरम् ॥ १८२॥ अथ प्रासादः
देवं नमामि शिरसा परशुत्रिशूल
विद्याकपालपरिमण्डितबाहुदण्डम् । व्याघ्राजिनाम्बरधरं भसितायदात
वेषोज्ज्वलं धृतजटाघटितेन्दुबिम्बम् ॥ १८३ ॥ तद्धेदः
वन्दे त्रिशूलस्फटिकाक्षमाला
विद्याप्रसादोद्यतबाहुमीशम् । सितोपवीतं भसितावदातं
कोटीरचूडोज्ज्वलचन्द्ररेखम् ॥ १८४ ॥ मृत्युञ्जयःशुभ्राम्भोजपुटेन्दुमण्डलगतं त्र्यक्षं त्रिशूलत्रयी__ टङ्काक्षाहितसूत्रसंयुतचतुर्बाहुं हिमाद्रिप्रभम् । मुद्रापञ्चकभूषितं त्रिनयनं ना(नो ? गो)त्तरीयं शिवं
वन्दे व्याघ्रवराजिनाम्बरधरं कोटीरचन्द्रोज्ज्वलम् ।। १८५॥ शूलाहीटङ्कघण्टासिसृणिकुलिशपाशाग्न्यभातीर्दधानं
दोभिः शीतांशुरेखाप्रतिघटितजटाभारमौलिं त्रिनेत्रम्। नानाकल्पाभिरामापघनमभिमतार्थप्रदं सुप्रसन्नं पद्मस्थं पञ्चवक्रं स्फटिकमणिनिभं पार्वतीशं नमामि
[॥१८६॥ शैवमष्टाक्षरम् ---- वामाङ्कन्यस्तवामेतरकरकमलायास्तथा वामबाहु'न्यस्तारक्तोत्पलायाः स्तनविधृतलसद्वामबाहुः प्रियायाः।