________________
११८
शिल्परत्ने
उत्तरभागः हृदयाञ्जलिसंयुक्तं विकीर्णाङ्घ्रिद्वयं पुनः । अथ लिङ्गोद्भवं वक्ष्ये लिङ्गाकारस्य मध्यतः ॥ १७६ ॥ नलकात् पादस्य तलं लिङ्गे शूलसमायुतम् । चन्द्रशेखरवत् सर्वं कारयेत् सुन्दराकृतिम् ॥ १७७ ॥ ब्रह्मा तु हंसरूपेण ऊर्ध्वगो वामपार्श्वतः । विष्णुर्वराहरूपेण दक्षिणांशे त्वधोगतः ॥१७८ ॥ हृदयेऽञ्जलिसंयुक्तौ रक्तश्यामनिभौ परम् । वीक्षमाणौ परं लिङ्गमिदं लिङ्गोद्भवं स्मृतम् ॥ १७९ ॥ अथ श्रीपञ्चाक्षरी - बिभ्रद् दोभिः कुठारं मृगमभयवरौ सुप्रसन्नो महेशः
सर्वालङ्कारदीप्तः सरसिजनिलयो व्याघ्रचर्मात्तवासाः । ध्येयो मुक्तापरागामृतरसकलिताद्रिप्रभः पञ्चवक्त्रस्त्र्यक्षः कोटीरकोटीघटिततुहिनरोचिष्कलातुङ्गमौलिः
॥१८॥ ईशानाह्वयमूर्ध्वदिग्वरमुखं वन्दामहे निर्मलं । - पूर्व तत्पुरुषं च कुङ्कुमनिभं याम्यं त्वघोरं हरम् । वामं मेरुजपाप्रसूनसदृशं यद्वामदेवं विदुः
सद्योजातमहाप्र(य ? भं)च परमं गोक्षीरफेनप्रभम् ॥१८१॥ अथ रुद्रःवन्दे बन्धुरहावभावललितं रक्ांशुकालेपन
स्मेरास्यं चिबुकाननासमरुणं माल्योल्लसत्कुन्तलम् । १. पंद्यमेतद् घ-मातृकायां न दृश्यते ।
-
--