________________
शैबे कालारिः] द्वाविंशोऽध्यायः ।
योगपट्टिकयोपेतं जङ्घामध्ये विशेषतः ।। प्रसार्य पूर्वहस्तौ द्वौ जानूपरि निधापितौ॥ १६५ ॥ अपरे दक्षिणे चाक्षमालां वामे कमण्डलुम् । जटामण्डलसंयुक्तं करोट्यर्धेन्दुशेखरम् ॥ १६६ ।। नीलग्रीवासमायुक्तं शङ्खकुन्देन्दुसन्निभम् । योगमूर्तिविशेषाख्यं शेषं प्रागिव कारयेत् ॥१६७॥ कालारिं कारयेदीशं नताङ्गं वामतो मना । सुस्थितं दक्षिणं पादं पद्मपीठेऽन्यमधिकम् ॥१६८ ॥ कुञ्चितं किञ्चिदुद्धृत्य न्यसेत् कालस्य वक्षसि । सदंष्ट्रास्यं त्रिनेत्रं च जटामकुटमण्डितम् ॥१६९ ॥ चतुर्हस्तयुतं वाथ वसुहस्तसमायुतम् । दक्षिणे पूर्वहस्ते तु शूलं कर्णान्तमुद्धृतम् ।। १७० ॥ दक्षिणे परहस्ते तु परशुं वरदं तु वा । वामे पूर्वकरं नाभिसूत्रान्ते सूचिमाचरेत् ॥ १७१ ॥ वामे तु परहस्ते तु विस्मयं परिकल्पयेत् । उष्णीषान्तं समुद्धृत्य विस्मयेऽनामिकाग्रकम् ॥ १७२ ॥ शूलं परशुवज्रौ च खड्गं दक्षिणहस्तके । विस्मयं खेटकं पाशं सूचिहस्तं च वामके ॥ १७३ ।। शुद्धविद्रुमसङ्काशं सर्वाभरणसंयुतम् । अधस्तात् कारयेत् कालं द्विभुजं पाशहस्तकम् ॥ १७४ ॥ करण्डमकुटोपेतं सदंष्ट्रं विकृताननम् । असृग्धारासमायुक्तं महाभयसमन्वितम्॥१७५ ॥ १. 'ण्ठा' क. ग. पाठः. २. 'यसस' घ. पाठः.