________________
शिल्परने
उत्तरमाणे: नारदो जमदग्निश्च वसिष्ठो दक्षपार्श्वके । भारद्वाजश्च शुनकरत्वगस्त्यो वामपार्श्वके ॥ १५४ ।। वन्दितैः किन्नराद्यैस्तु सेवितं भक्तिसंयुतैः।। अपस्मारोपरिष्टात्तु लम्बपादतलं न्यसेत् ॥ १५५ ॥ धर्मव्याख्यानमूर्तिः स्यादेवं सर्वशुभावहम् । तदेव वामपादनोत्कुटिकासनसंयुतम् ॥ १५६ ॥ पूर्वहस्तद्वये वीणां चेत् तहीणाधरं स्मृतम् । अथवा पूर्वहस्ताभ्यां ज्ञानमुद्राभयौ धृतौ ॥ १५७ ॥ वामं प्रसारितं वाथ वामजानूर्ध्वकोपरे । अपरे दक्षिणे त्वक्षमालामुत्पलमन्यतः ॥ १५८ ॥ ज्ञानमूर्तिरिति ख्यातं सर्वकारणकारणम् । अन्योन्याघितलं सम्यक् स्फिपिण्डाधः प्रकल्पयेत् ॥ ज्ञानमुद्रां हृदि स्थाने त्वभ्यन्तरमुखं करम् । वरदं वामहस्तं तु मेढ़पीठोपरि न्यसेत् ॥ १६ ॥ अपरे चोत्पलं चाक्षमालां पूर्ववदाचरेत् । नासाग्रं स्वं समीक्ष्य स्वमार्जवं देहमाचरेत् ॥ १६१ ।। सुविकीर्णजटायुक्तं योगमूर्तिरिति स्मृतम् । लम्बयेद् दक्षिणं पादं वाममुत्कुटिकासनम् ॥ १६२ ॥ सम्बध्य योगपट्टेन + देहोत्कुटिकाधिकौ । प्रसार्य वामहस्तं तु वामजानूपरि स्थितम् ॥ १६३ ॥ एतच्च योगमूर्तिः स्याच्छेषं पूर्ववदाचरेत् । ऊरुमूलं समाश्रित्य अन्योन्याबद्धपाणिकम् ॥ १६४ ॥