________________
शैवे दाक्षिणामूर्तिः 1] द्वाविंशोऽध्यायः । कङ्कालमूर्तिवच्छेषं सर्वमत्र विशेषतः । चण्डेशानुग्रहं देवमुमास्कन्दवदाचरेत् ॥ १४३ ॥ वामे किञ्चिन्नतं त्वास्यं दक्षिणे त्वभयं विना । तद्धस्ते वरदं कार्य वामे तु कटकं विना ॥ १४४ ॥ चण्डेशमूनि विन्यस्य तद्धस्तं करुणान्वितम् । हृदयेऽञ्जलिसंयुक्तश्चण्डेशो भक्तिसंयुतः ॥ १४५ ॥ आसनाधः सुखासीनो भक्तिमान स्वर्णसन्निभः । दक्षिणामूर्तिमीशानं कुर्याद् वटतरोरधः ॥ १४६ ॥ लम्बयेद् दक्षिणं पादं वामा नलकाग्रकम् । सममेवं विधातव्यं वामपादं तु शाययेत् ॥ १४७ ॥ दक्षिणे पूर्वहस्ते तु ज्ञानमुद्रां तु धारयेत् । दक्षिणे परहस्ते तु कारयेदक्षमालिकाम् ॥ १४८ ॥ वरदं वामहस्ते तु दण्डं वा परिकीर्तितम् । वामजानूपरिष्टात्तु दण्डश्चेत् कोपरं न्यसेत् ॥ १४९ ॥ वामे परकरे तत्र वह्नि वा मृगमेव वा । विकीर्णमूर्घजं वापि जटामण्डलसंयुतम् ॥ १५० ॥ जटाभिर्बद्धमूर्ति वा जटामकुटसंयुतम् ।। शुद्धस्फटिकसंकाशम् ++++++++ | वामे धुवूरपुष्पं च नागश्च शिरसि स्मृतम् ॥ १५१ ।। दक्षिणेन्दुकलायुक्तं सर्वाभरणभूषितम् । सितवस्त्रोत्तरीयं च सितयज्ञोपवीतिनम् ॥ १५२ ।। व्याघ्रचर्माम्बरोपेतं त्रिनेत्रं क्लेशवर्जितम् । रुद्राक्षं कण्ठमालां च हृन्मालां च विधापयेत् ॥ १५३ ॥