________________
शिल्परले
[उत्तरमागः रुद्राङ्गुलविशालं तु तहान्वंशगतनम् (?)। सुवृत्तं चक्रवृत्तं तु पद्माकृतिरथापि वा ॥ १३३ ॥ शिरश्चऋविशालस्य सप्तभागैकभागिकम् । शिरश्चक्रस्य नालस्य विस्तारं परिकीर्तितम् ॥ १३४ ॥ चक्रतारत्रिभागैकं चक्रादा शिरसोऽन्तरम् । अग्राल्ललाटपट्टस्य शिरश्चक्रस्य नालकम् ॥ १३५॥ गुणाङ्गुले तु कै(ट्यो ? टयू)चे चक्रनालस्थितिर्भवेत् । चक्राद् गुणांशमालम्ब्य पुष्पमाला तु मध्यमात् ॥१३६।। सर्वेषामपि देवानां देवीनाचमाचरेत् । अथ भिक्षाटनं वक्ष्ये पादौ पादुकसंयुतौ ॥१३७ ।। सुस्थितं वामपादं तु गन्तुं दक्षिणमुद्धृतम् । सुविकीर्णजटाभारं जटामण्डलमेव वा ॥ १३८ । विवृतबन्धजटं वाथ उपानद्रहितं तु वा । ललाटपट्टसंयुक्तं करोत्वर्धेन्दुशेखरम् ॥ १३९ ।। सर्वाभरणसंयुक्तं कटिसूत्रविवर्जितम् ।। शुद्धश्वेतनिभं प्रोक्तं नानानागविभूषितम् ॥ १४० ॥ दक्षिणं पूर्वहस्तं तु मृगस्यास्यान्तिकं भवेत् । वामे तु पूर्वहस्तं तु सितवस्त्रोत्तरीयकम् ॥ १४१ ॥ श्वेतयज्ञोपवीतं तु कटौ नागेन वेष्टितम् । नीलकण्ठं त्रिपुण्ड्राढ्यं पद्मपीठोपरि स्थितम् ॥ १४२ ॥
१. 'शे', २. 'सं', ३. 'को' घ. पाठः,