________________
ये हरिहरः ।। द्वाविंशोऽध्यायः । दण्डे कङ्कालपादौ द्वौ रज्जुना बन्धयेद् बुधः। केतुदण्डेन नेत्राभ्यां निष्क्रान्तं रुधिरं तु वा ॥ १२२ ॥ एवं कङ्कालदण्डं तु वामस्कन्धोपरि न्यसेत् । बलिपात्रधृतं भूतं वामेऽग्रे गमनान्वितम् ॥ १२३ ॥ दक्षिणेऽन्नं तु तत्पार्धे निधाय कृतजायया । किञ्चित् प्रकाशितं योनिसंयुतानतवाससा ॥ १२४ ॥ सम्भ्रान्तमनसोपेतं जायाः सर्वास्त्वनेकशः। व्याघ्रचर्माम्बरोपेतं दुकूलवसनान्वितम् ॥ १२५ ॥ दक्षिणे कटिपार्श्वे तु क्षुरिकों चैव बन्धयेत् । क्षुरिका हैमसङ्काशा रूपबन्धसमन्विता ॥ २२६ ।। यक्षकिन्नरसिद्धाद्यैः सेवितं पूजितं नुतम् । चामरैरर्कचन्द्राभ्यां वीजितं रत्नभूषितैः ॥ १२७ ॥ अण्डानां सुस्थितार्थ तु सर्वलोकोपकारकम् । कङ्कालमोचनार्थं तु (स) स्यात् कङ्कालकाभिधः॥१२८।। अथ वक्ष्ये हरिहरं सुस्थितं समपादकम् । दक्षिणे त्वभयं वामे कटकं तूरुसंयुतम् ।। १२९ ॥ परशुं दक्षिणे वामे शङ्ख तु परहस्तके । वाममई हरिं कुर्याद्धरमन्यार्धमाचरेत् ।। १३० ॥ क्रमात् श्यामं प्रवालाभमुभयोचितभूषणम् । दक्षिणेऽह्युग्रदृष्टिः स्याद् वामे शीतलनेत्रकम् ।। किञ्चित् प्रकाशितोवा॑क्षं दक्षिणार्धे ललाटके । शिरश्चक्रसमायुक्तं तस्य लक्षणमुच्यते ॥ १३२ ॥ . १. 'काश्चैव', २. 'कू' क. पाठः.