________________
शिल्परले
[ব্রহ্ম सर्वाभरणसंयुक्तमतिरक्तप्रभान्वितम् । सुस्थितं वामपादं तु गजवीरस्य मस्तके ॥ १११ ॥ उद्धृतं दक्षिणं पादं कक्षसूत्रान्तमाचरेत् । गौरी स्कन्दं समुद्धृत्य शम्भो मे भयान्विता ॥ ११२ ॥ अथवा शूलखड्गौ च गजदन्तं च चर्म च । दक्षिणे वामतः कुर्यात् कपालं खेटकं पुनः ॥ ११३ ॥ घण्टा च गजचर्म च करैरिति + वामतः । अथ पाशुपतं वक्ष्ये चन्द्रशेखरवत् स्थितम् ॥ ११४ ॥ चतुर्भुजं त्रिनेत्रं चाप्यूर्ध्वकेशं महातनुम् । दक्षिणेऽभयकं शूलं कपालं वरदं परे ॥ ११५ ॥ प्रवालसदृशप्रख्यं सर्वाभरणभूषितम् । कङ्कालमूर्तिनं वक्ष्ये पादयोः पादुकान्वितम् ॥ ११६ ।। सुस्थितं वामपादं तु गमनापेक्षयापरम् । पादमीषत् समुद्धृत्य करोत्यधिकसुन्दरम् ॥ ११७ ॥ शुद्धश्वेतनिभं चारु सर्वाभरणभूषितम् । रत्नकञ्चुकबद्धाङ्गं जटामकुटमण्डितम् ।।११८ ।। धुधूरपुष्पं नागं च वामे दक्षेन्दुशेखरम् । किञ्चित्प्रकाशितान्तःस्थदशनांशुविराजितम् ॥ ११९ ॥ दक्षिणं हरिणीवक्त्रे व्यापितं सिंहकर्णवत् । वामहस्ते च दण्डं तु कङ्कालास्थि च धारयेत् ॥ १२० ॥ तदस्थ्याकृति निमांसं द्विपादं द्विकरान्वितम् । कृष्णश्यामनिभाकारमपाने दण्डवेशनम् ॥ १२१ ॥