________________
शवे गङ्गाधरः ।] द्वाविंशोऽध्यायः ।
सजानुगकर डोलं वाम गजकरोपमम् । अनलं मिथुनं चैव वलयं केतुमेव च ॥ ५६ ॥ घण्टां चैव कपालं च वामपार्श्वेऽष्टहस्तके । पादौ पञ्चमनृत्तस्य विधिवत् तद् विधीयते ॥ ५७ ॥ त्रिनेत्रं चाष्टहस्तं च सुविकीर्णजटान्वितम् । कुचितं वामपादं तदपस्मारोपरि स्थितम् ॥ ५८ ॥ उद्धृतं दक्षिणं पादमङ्गुष्ठाब्जाग्रसीमकम् । अभयं शूलपाशौ च डमरु दक्षिणे करे ।। ५९ ॥ कपालं चाग्निपात्रं च तथा विस्मयहस्तकम् । गजहस्तोपमं हस्तं सव्यासव्यानुगं तु वा ॥ ६ ॥ वामे गौरीसमायुक्तं सप्तमं नृत्तमेव हि । तदेव षड्भुजोपेतमभयं डमरूं तथा ॥ ६१ ॥ शूलं दक्षिणपार्श्वे तु कपालं विस्मयं तथा । गजहस्तोपमं वामे पार्श्वे रयाद् यत् तदष्टमम् ॥ ६२ ॥ पञ्चमस्य च षष्ठस्य नृत्तस्याक्षिद्वयं विदुः । तच्छेषाणां तु नृत्तानां नेत्रत्रयमुदाहृतम् ॥ ६३ ॥ चतुर्भुजं त्रिनेत्रं च जडामण्डलसंयुतम् । अभयं डमरुं सव्ये दक्षेऽग्निं गजहस्तवत् ॥ ६४ ।। अपस्मारं विना पीठे वामाघ्रिं कुञ्चितं स्थितम् । ततः पुरस्थिता पीठे सव्यपादकनिष्ठिका ॥ ६५ ॥ तत्पादं कुञ्चितं युक्त्या नवमं नृत्तमाचरेत् । गङ्गाधरमहं वक्ष्ये सर्वलोकसुखावहम् ॥ ६६॥