________________
१०८ शिल्परत्ने
[उत्तरभागः सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् । विश्लिष्यं स्याज्जटाबन्धं वामे त्वीषन्नताननम् ॥ ६७ ॥ दक्षिणे पूर्वहस्ते तु वरदं दक्षिणेन तु । देवीमुखाश्रितेनैव देवीमालिङ्गय कारयेत् ॥ ६८ ॥ दक्षिणापरहस्तेन उद्धृत्योष्णीषसीमकम् । स्पृशेज्जटागतां गङ्गां वामेन मृगमुद्धरेत् ॥ ६९ ॥ देवस्य वामपार्श्वे तु देवी विरहितानना। सुस्थितं वामपादं तु कुञ्चितं दक्षिणं भवेत् ॥ ७० ॥ प्रसार्य दक्षिणं हस्तं वामहस्तं तु पुष्पधृक् । सर्वाभरणसंयुक्तौ सर्वालङ्कारसंयुतौ ॥ ७१ ॥ भगीरथं दक्षिणे तु पार्श्वे मुनिवरान्वितम् । अथाष्टधा प्रवक्ष्यामि त्रिपुरान्तकमूर्तिनम् ॥ ७२ ॥ दक्षिणं सुस्थितं पादं वामपादं तु कुञ्चितम् । दक्षिणे पूर्वहस्तं तु नाभिसूत्रावसानके ॥ ७३ ॥ सिंहकर्णं तु तद्धस्तं बाणमध्यनिपीडितम् । वामहस्ते धनुर्धृत्वा कक्षान्तोर्ध्व समुद्धृते ॥ ७४ ।। कर्तरी परहस्तौ द्वौ टङ्ककृष्णमृगान्वितौ । टकं तु दक्षिणे वामे कृष्णसारङ्गमेव हि ॥ ७५ ॥ जटामकुटसंयुक्तं सर्वाभरणभूषितम् । प्रवालसदृशप्रख्यं वामे गौरीसमायुतम् ।। ७६ ॥ इदं प्रथममाख्यातं द्वितीयं तु ततः परम् । तदेव वामपादं तदपस्मारोपरि स्थितम् ॥ ७७॥ १. 'मुच्यते ॥' क. ख. पाठः,