________________
१०६
शिल्परत्ने
[उत्तरमार्गः रविमण्डलवृत्तं तु प्रभामण्डलमत्र तु । तत्र वामेऽप्युमादेवीं प्रागुक्तविधिना कुरु ॥ ४५ ॥ एतत् स्यात् प्रथमं नृत्तं सर्वलोकहितावहम् । तदेव दक्षिणे पार्श्वे जटाये जाह्नवी भवेत् ॥ ४६ ॥ शम्भोरर्चाङ्गुलेनैव षोडशाङ्गुलमुन्नता। स्त्रीमानोत्तुङ्गसम्पूर्णा हृदयेऽञ्जलिसंयुता ॥ ४७ ।। एवं जाह्नविसंयुक्तं नृत्तं यत्तद् द्वितीयकम् । तदेव वामपादं तदपस्मारोपरि स्थितम् ॥४८॥ उद्धृतं दक्षिणं पादं तृतीयेऽन्य(द् य)थापुरम् । अनुकीर्णजटाभारं जटामकुटमण्डितम् ॥ ४९ ॥ जटामण्डलयुक्तं वा चतुर्थेऽन्यद् यथादिमम् । उष्णीषोर्चेकमात्रान्तं सव्यपादं समुद्धरेत् ॥ ५० ॥ सवकं वामपादं तदपस्मारोपरि स्थितम् । उपभुजाष्टकसंयुक्तमेतत् पञ्चममुच्यते ॥ ५१ ॥ अभयं शूलपाशौ च डमरू दक्षिणे करे । कपालं चाग्निपात्रं च तालि + ण्डकरोपमम् ॥५२॥ दोभिः षडङ्ग-संयुक्तं वामे गौरीसमायुतम् । स्कन्दो भयात् कराभ्यां तु मातुः स्तनहृदोदरात् ॥५३॥ निपीड्य वा कराभ्यां तु वामभागोद्धृताञ्जलिम् । एवं गौरी निरीक्ष्येशं भीत्यातिस्नेहविस्मयात् ॥ ५४ ॥ अभयं डमरु चैव वज्रं शूलं तथैव च । पाशंटेडू तथा दण्डं नागं वै दक्षिणे करे ॥ ५५ ॥ १. 'घटं त' क. पाठः.