________________
वे नृत्तम् । ]
द्वाविंशोऽध्यायः । हिक्कासमं समुन्नम्य दक्षहस्ताङ्गुलाग्रकम् । तद्धस्ततलमध्ये वा मध्यमाङ्गुलिकाग्रके ॥ ३४ ॥ तन्मध्यपर्वगं वाथ वह्निपात्रगतं तु वा । पात्रं विनाथवा कुर्यादपरे डमरु तथा ॥ ३५ ॥ दक्षिणे त्वन्यहस्ते स्यादभयं पूर्वमुक्तवत् । अभये कोष्ठमध्ये तु भुजङ्गवलयं न्यसेत् ॥ ३६ ॥ डोलायमानं तद् वामहस्तं कुर्याद् यथोचितम् । स्थिताघ्रिजानोर्वामाज्रिजानुनीप्रं कलाङ्गुलम् ॥३७॥ सुविकीर्य जटाभारं नानानागविचित्रितम् । करोटिकाभिधुत्तूरकुसुमैश्च भुजङ्गमः ॥ ३८ ॥ भूषितं मकुटं कुर्याद् दक्षिणेऽर्धेन्दुशेखरम् । सिन्दूरालंकृतोत्तंसमक्षमालावलम्बितम् ॥ ३९ ॥ भस्मोद्धूलितदिव्याङ्गं किश्चित् प्रहसिताननम् । यज्ञोपवीतादियुतं व्याघ्रचर्माम्बरान्वितम् ॥ ४० ॥ दक्षिणं कुञ्चितं पादमपस्मारोपरि स्थितम् । चतुस्तालेन कर्तव्यमपस्मारं प्रमाणतः ॥४१॥ - शम्भोः सव्यगतं तस्य शिरः कुर्यादधोमुखम् । पादौ विकीर्णहस्ताभ्यां व्यालीलीलामुदान्वितम् ॥ ४२ ॥ व्यालं वै वामहस्ते वा दक्षिणं मुद्रयान्वितम् । सस्यश्यामनिभं कुर्यादपरमारं विशेषतः ॥ ४३ ।। पद्मपीठमधः कुर्यात् कलाङ्गुलसमुच्छ्यम् । तचतुर्गुणविस्तारं प्रभामण्डलसंयुतम् ॥ ४४ ॥