________________
शिल्परत्ने देवदक्षिणहस्तेन शम्भोदक्षिणपार्श्वतः । कटिसूत्रोपरि तथा वामे पुष्पधृता करे ॥ २४ ॥ अथवा प्राग्वदेवेशो देवी रक्तोत्पलान्विता । करे तु दक्षिणे वामहस्तमंत्र प्रलम्बयेत् ॥ २५ ॥ एवमालिङ्गमूर्तिं तु त्रिधा मार्गेण कल्पयेत् । एवं पञ्चविधं प्रोक्तं चन्द्रशेखरमूर्तिनम् ॥ २६ ॥ अथ वृषारूढमूर्तिः |
दक्षिणं सुस्थितं वामपादं तु कुञ्चितम् । वृषस्य मस्तको तु न्यसेद् वै वामकोर्परम् ॥ २७ ॥ तस्य दक्षिणहस्ते तु वक्रदण्डमुदाहृतम् । कनिष्ठाङ्गुलिपरीणाहमग्रे वकत्रयान्वितम् ॥ २८ ॥ लोहजं दारुजं वापि वक्रदण्डं प्रकीर्तितम् । परहस्तयोश्चैव टङ्कं कृष्णमृगं न्यसेत् ॥ २९ ॥ जटामकुटयुक्तं वा जटाभारं तु लम्बितम् । जटाबन्धशिरो वापि कर्तुरिच्छानुसारतः ॥ ३० ॥
ܕܘܪ
[उत्तरभाग
सर्वाभरणसंयुक्तं रक्ताभं रक्तवाससम् । वामपार्श्वे तु वा देवी दक्षिणे वा विशेषतः ॥ ३१ ॥ सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् | उत्पलं दक्षिणे हस्ते वामहस्तं प्रलम्बितम् ॥ ३२ ॥
अथ नृत्तम् ।
नृत्तमष्टशतविधं तत्रादौ नव कथ्यते । भानुरुद्रदशांशं वा तुङ्गं नृत्तनतं भवेत् ॥ ३३ ॥