________________
शैवे चन्द्रशेखरः] द्वाविंशोऽध्यायः ।
उभयोर्हस्तयोः पुष्पं वामे वरदमेव वा ! कटकं वाथ तहस्ते सिंहकर्णमथापि वा ॥ १३ ॥ अथवा पुस्तकं दक्षहस्ते वामे पुरोक्तवत् । कटिसूत्रयुतं नग्नं बाहुभूषणभूषितम् ।। १४ ।। आसीनं वा स्थितं वाथं नृत्तं वा स्कन्दमाचरेत् । नृत्तं चेत् फलबद्वामहस्तमन्यत्र सूचिकम् ॥ १५ ॥ अथवा वामहस्तं तु फलं त्यक्त्वा प्रसारयेत् । वक्ष्यमाणविधानेन स्कन्दं नृत्तं समाचरेत् ॥ १६ ॥
अथ चन्द्रशेखरः। केवलं गौरिसहितमालिङ्गं च त्रिधा भवेत् । केवलं समपादं तु स्थानक परिकल्पयेत् ॥ १७ ॥ अभयं दक्षिणं हस्तं वरदं वाममुच्यते । हरिणीं वामहस्ते तु टङ्क वै दक्षिणे करे ॥ १८ ॥ जटामकुटसंयुक्तं दक्षिणेऽर्धेन्दुशेखरम् । वामेन्दुशेखरं वाथ प्रवालसदृशप्रभम् ।। १९ ॥ त्रिनेत्रं सौम्यवदनं सर्वाभरणभूषितम् । पीताम्बरधरं देवं वस्त्रामा नलकान्तगौ ॥ २० ॥ उभयोः पार्श्वयोरेव मध्यतश्चोरुमध्यगम् । केवलं त्वेवमाख्यातं वामे गौरीसमन्वितम् ॥ २१ ॥ भिन्नपीठेऽविशेषेण तद् गौरीसहितं विदुः। देवो वरदहस्तेन देवीं तत्पार्श्वमाश्रिताम् ।। २२ ।। स्त(न)नाभ्यन्तरे वामपार्श्वमालिङ्गनं कुरु । पार्श्वसूत्रात् परे वामबाहुमालिङ्गनं तु वा ॥ २३ ॥