________________
शिल्परने
[उत्तरभाग: व्याघ्राजिनवरोपेतं दुकूलवसनान्वितम् । दक्षिणे परशुं वामे कृष्णां हस्ते समुद्दतम् ।। ३ ॥ अभयं दक्षिणे वामे कटकं सिंहकर्णवत् । दक्षिणे मकराख्यं वा कुण्डलं सिंहमेव वा ॥ ४ ॥ पत्रकुण्डलमन्यत्र वामकर्णे विशेषतः । अथवा कर्णयुगले वृत्तकुण्डलकं न्यसेत् ।। ५ ।। जटामकुटसंयुक्तं नानाभरणभूषितम् ।। यज्ञोपवीतसंयुक्तं सर्पराट्कङ्कणान्वितम् ॥ ६ ॥ एवं सुखासनं प्रोक्तं राजराष्ट्रसुखावहम् ।
अथ सोमास्कन्देश्वरः। अथ वक्ष्ये विशेषेण सोमास्कन्देश्वरं वरम् ॥ ७ ॥ सुखासनं यथा प्रोक्तं तथा देवो विधीयते । देवस्य वामपार्श्वे तु पार्वती च सहासने ॥ ८ ॥ शाययेद् दक्षिणं पादं वामपादं प्रलम्बयेत् । वरदं वामहस्ते तु दक्षिणे चोत्पलं करे ॥ ९॥ दूर्वाश्यामनिभा देवी सर्वाभरणभूषिता । रक्ताम्बरधरा हारकिरीटमकुटान्विता ॥ १० ॥ वामोरुवाह्ये पीठे तु वामहस्ततलं न्यसेत् । प्रहदुत्पलसंयुक्तमन्यमेवं करोतु वा ॥ ११ ॥ देवीदेवेशयोर्मध्ये स्थापयेत् स्कन्दमूर्तिनम् । केशान्ते वा(पि ? चि)कोपेतकरण्डमकुटान्वितम् ॥१२॥
१. 'रि', २. 'व', ३. 'तम्' घ. पाठः,