________________
शैव सुखासनमूर्तिः। द्वाविंशोऽध्यायः ।
१०१ तदधः पञ्चमं सूत्रं षष्ठं तु जठरान्ततः । सप्तमं बाहुमध्ये स्यादष्टमं जानुमध्यगम् ॥ ६४ ॥ जङ्घामध्ये च नवमं दशमं गुल्फ(तो ? को)व॑तः । एकादशं तु पादानां तलस्पृष्टं विधीयते ॥ ६५ ॥ मुखस्य त्रिगुणं दैर्ध्य कण्ठात् पुच्छावसानकम् । जठरेण समं गात्रं कलाहीनं तु वा भवेत् ॥ ६६ ॥ गात्रतुङ्गसमं पादं पुच्छमागुल्फलम्बितम् । पुच्छमूलपरीणाहं तालमात्रं निरूपितम् ॥ ६७ ॥ तदर्धमग्रं कर्तव्यं कृशाग्रं वर्तुलाकृति । तदग्रस्योभये पार्श्वे स्थूलरोमाणि कारयेत् ।। ६८ ॥ श्रोत्रकुम्भाक्षदन्तोष्ठहस्तादीनि विशेषतः । विघ्नेशप्रोक्तमालोच्य कारयेत् सुमनोहरम् ॥ ६९ ॥ एवमन्यानि वाहानि तत्तद्देवोचितान्यपि । युक्त्या सम्यक् प्रकुर्वीत तत्तच्छास्त्रानुसारतः ।। ७०३ ।। इति शिल्परत्ने उत्तरभागे वाहनलक्षणं नाम
एकविंशोऽध्यायः ।।
अथ द्वाविंशोऽध्यायः। अथ ध्यानं -तत्र पूर्व शैवे सुखासनमूर्तिः । आर्जवं राजराजाभं भद्रपीठोपरि स्थितम् । वामाचि शाययेत् पीठे दक्षिणाचि तु लम्बयेत् ॥१॥ जागतं(१) तु सुखासीनं प्रवालसहशप्रभम् । त्रिनेत्रं तु प्रसन्नास्यं सम्पन्नं राजसैर्गुणैः ॥२॥