________________
शिल्परत्ने
[उत्तरभामः सविंशच्छतमुद्दिष्टाः (सूत्रा ? कोष्ठा)स्तत्सूत्रमध्यगाः। तत्र सूत्रेषु वक्ष्यामि प्रदेशान् नागसम्भवान् ।। ५३ ॥ लम्बसूत्रं बहिष्ठं यत्तच्छिष्टं प्रतिमानके । निदा(ने? नं) वायुकुम्भाग्रे दन्तमूले द्वितीयकम् ॥५४ । बिन्दुमध्ये मदच्छिद्रे सृक्कदेशे तृतीयकम् । कण्ठे च पिप्पलादेशे कुम्भप्रान्ते तुरीयकम् ।। ५५ ॥ भासने कर्णमध्ये च पुरोनखरपश्चिमे । द्वितीये नखरे लग्नं कार्य सूत्रं तु पञ्चमम् ॥ ५६ ॥ असे कर्णतलस्याग्रे पश्चान्नखरपश्चिमे । सूत्रं षष्ठं प्रकुर्वीत सूत्रन्यासविशारदः ॥ ५७ ॥ मध्यदेशे प्रयुञ्जीत लम्बसूत्रचतुष्टयम् । सूत्राणां दशकं चैवं कथितं सूत्रवेदिभिः ॥ ५८ ॥ पेचकं पाचरांजितं (१) पाश्चात्यनखमध्यगम् । एकादशं भवेत् सूत्रं द्वादशं जघनस्पृशम् ॥ ५९ ॥ त्रयोदशं बहिष्ठं तु पुच्छमूले सुघट्टितम् । मस्तके वंशपृष्ठे च तिर्यसूत्रमथादिमम् ॥ ६ ॥ वायुकुम्भस्य शीर्षस्य सन्धौ पिप्पलिदेशतः। पेचके च विधातव्यं सूत्रमत्र द्वितीयकम् ॥ ६१ ॥ वायुकुम्भस्य मध्ये च नेत्रकर्णदलाग्रतः । पेचकस्याप्यधोभागे सूत्रं कार्यं तृतीयकम् ॥ ६२ ।। मुखमध्ये सकदेशे पुच्छमध्यसुसङ्गतम् । चतुर्थं कल्पयेत् सूत्रं चित्रकल्पनकोविदः ॥ १३ ॥