________________
गजलक्षणम्] एकविंशोऽध्यायः ।
चतुरङ्खलायतः कोशो मुष्कावष्टाङ्गुलायतौ। (स्व ? स्थू )रायां बुध्नभागस्थे जङ्घ च परिहस्तकौ ॥ ४२ ॥ रुष्टिके च खुरहन्हें कार्य पौ(ल ?र)स्त्यपादवत् । स्कन्धोऽङ्गुष्ठं च मध्यं च कृशं कार्य प्रमाणतः ॥ ४३ ॥ ब(न्धा ? डवा)यां महद् वक्षो जघनं च सुविस्तृतम् । खुरपृष्ठान्तमालम्ब्य लागूलं चामराकृति ॥ ४४ ॥ यान्यनुक्तानि तान्यत्र कुर्यादङ्गानि युक्तितः।
__ अथ गजलक्षणम् । गजस्य लक्षणं वक्ष्ये ज्ञानार्थ चित्रवेदिनाम् ॥ ४५ ॥ केशान्ततः समारभ्य यावत् स्यात् प्रतिमान(त? क)म् । (सु ? मुखं तत् कथितं तज्ज्ञैर्गजानां चित्रवेदिभिः ॥ ऊर्ध्व केशान्ततः शीर्ष यावत् कुम्भसमुद्भवः । शीर्षस्योपरि कुम्भौ द्वौ कर्तव्यौ कुचसन्निभौ ॥ १७ ॥ वायुकुम्भस्य शीर्षस्य सन्धेरा प्रतिमानतः। पिप्पलीदन्तवेष्टाभ्यां वेष्टितं मुखमीरितम् ॥४८॥ त्रिधा विभज्य तत्तालास्त्रीन् भागान् परिकल्पयेत् । त्रिधा विभज्य तहकं त्रितालं परिकल्पयेत् ॥ ४९ ॥ यावत्प्रमाणकं नागं कर्तुमिच्छति शिल्पिराट् । चतुर्धा भाजिते तस्मिन् माने तालस्ततोऽङ्गलम् ॥ ५० ॥ ऋजूनि लम्बसूत्राणि विधेयानि त्रयोदश । एकैकतालभिन्नानि चित्रकर्मविशारदैः ॥ ५१ ॥ तत्तत्प्रमाणकान्येव तिर्यक्सूत्राणि कारयेत् । एकादशैव तानि स्युः करिणां चित्रकर्मणि ॥ ५२ ॥