________________
शिल्परले
[उत्तरभागः तथा चरणयोर्दैर्ध्य द्विचत्वारिंशदङ्गलम् । बाहु(दीर्घ ? दैर्ध्य) भवेत् त्रयं प्रोक्तं पञ्चदशाङ्गुलम् ॥ ३१॥ बाहुमूलपरीणाहस्त्रिंशदङ्गलसम्मितः । बाहुमध्यपरीणाहो वितस्तिद्वयवेष्टनात् ॥ ३२ ॥ बाहुप्रान्तपरीणाहो भवेदष्टादशाङ्गलम् । (अष्टादशाङ्गलो) जानुनाह एकोनविंशतिः॥ ३३ ॥ जङ्घानलकदैर्घ्य स्यान्नाहो द्वादशमात्रकः ! पलिहस्तस्य दैर्ध्य तु षडङ्गलमुदीरितम् ॥ ३४ ॥ पलिहस्तपरीणाहो भवेदष्टादशाङ्गलः । कुष्ठिकाया भवेद् दैयं षडङ्गलमुदीरितम् ॥ ३५ ॥ कुष्ठिकायाः परीणाहो द्वादशाङ्गलसम्मितः। खुरदैर्घ्यं समुद्दिष्टं षडङ्गुलभितं बुधैः ॥ ३६॥ भवेत् खुरपरीणाहो विंशत्यङ्गलसम्मितः । पृष्ठप्रदेशदैर्घ्य च चतुरतालमुदाहृतम् ।। ३७ ॥ कक्षदेशपरीणाहः शताङ्गुलमितो भवेत् । रन्ध्रस्थानपरीणाहः सप्ततालं स्वराङ्गलम् ॥ ३८ ॥ रन्ध्रोपरन्ध्रयोर्मध्यं विंशत्यङ्गलमायतम् । त्रिकस्थानस्य विस्तारस्त्रिगुणैः षोडशाङ्गलैः ॥ ३९ ॥ (ज्वल ? जघ)नस्य तु विस्तारः षट्चत्वारिंशदङ्गलः। सक्थिप्रान्तपरीणाहस्तालद्वितयसम्मितः॥४०॥ नवाङ्गलायता स्थू(ला? रा) ना(भे? हे)न त्रिंशदङ्गला । उपरन्ध्रात् समारभ्य कोशरथानं तु तालतः ॥ ४१ ॥