________________
अश्वलक्षणम् ] एकविंशोऽध्यायः ।
चतुर्मात्रमधोभागे तत्र लेखात्रयं भवेत् । तस्याधः (प्रौढ ? प्रोथ)देशः स्याच्चतुरङ्गुल सम्मितः ॥२०॥ चतुरङ्गुलविस्तारः पीनत्वं चतुरङ्गुलम् । मुखराजे(:) पुटस्यापि मध्यं स्याच्चतुरङ्गुलम् ॥ २१ ॥ मुखरेखाबहिर्भागे हनुः स्याञ्चतुरङ्गुलः। चिबुकं तत्र कर्तव्यं पञ्चाङ्गुलमितं बुधैः ॥ २२ ॥ (प्रौढा ? प्रोथा)च्च सृक्कपर्यन्तमास्यरेखा स्वराङ्गला। मस्तकात् काकसां यावच्चतुस्तालमितं भवेत् ॥ २३ ॥ स्यात् केसरस्य विस्तारः शीर्षदेशेऽङ्गुलत्रयम् । चतुरङ्गलं भवेन्मध्ये प्रान्ते मात्रमितो भवेत् ॥ २४ ॥ कृत्तकेसरकः स्कन्धः कर्तव्यः काकसावधि । काकसायां तथा कार्याः केसरा दैर्घ्यशालिनः ॥ २५ ॥ मस्तके च तथा केशा द्वादशाङ्गलदैर्घ्यकाः । तरङ्गिता धनाः स्निग्धाः श्लक्षणाः कार्या मनोहराः ।। नि(गपा ? गाला)दसपर्यन्तं ग्रीवा तालद्वयायता। अङ्गुलत्रयविस्तारा कार्या निखिलघोटके ॥ २७॥ स्कन्धदेशपरीणाहः षट्तालः साङ्गलत्रयः । स्कन्धमध्यपरीणाहश्चतुष्पञ्चदशाङ्गलः ॥ २८॥ ग्रीवासन्धिपरीणाहस्त्रितालश्च नवाङ्गुलः। वक्षोदेशस्य विस्तारो द्वादशाङ्गुलसम्मितः ॥ २९॥ अष्टादशाङ्गुलं दैर्ध्य वक्षोदेशस्य कल्पितम् । वक्षःकाकसयोर्मध्यं द्विचत्वारिंशदङ्गलम् ।। ३० ॥