________________
शिल्परत्ने
उत्तरभागः अङ्गलं नासिकादीर्घ* ++ ++ + + ++॥१०॥
अथाश्वलक्षणम् । मुखं तालत्रयं प्रोक्तमायामेन तुरङ्गमे । तन्मध्यवर्तिनो वक्ष्ये प्रदेशान्मात्रया मितान् ॥ १॥ वर्तुलं मस्तकं कार्यं षडङ्गुलमितं पुनः। व्यङ्गुलं कर्णमूलान्तमुत्सेधेन व्यवस्थितम् ॥ २ ॥ कर्णमूलात्तथा कर्णो कार्यावष्टाङ्गुलायतौ ।। ना(ग)वल्लीदलप्रख्यौ चतुरङ्गुलविस्तृतौ ॥ ३ ॥ कर्णमूलस्य नेत्रस्य मध्यं कार्यं नवाङ्गुलम् । नेत्रे गोलद्वयायामे सार्धद्व्यङ्गुलविस्तृते ॥ ४ ॥ भ्रुवौ व्यङ्गुलविस्तारे षडङ्गुलसमायते। भ्रुवोर्मध्यप्रदेशस्तु द्वादशाङ्गुलसम्मितः ॥ ५ ॥ षडङ्गुलं भवेत् फालं केशान्ते मध्यदेशतः। अष्टाङ्गुलं ततश्चाधो द्वादशाङ्गुलविस्तृतम् ॥ ६ ॥ एकतालो भवेद् दैयं ललाटस्य प्रमाणतः। नयनाद् गण्डविस्तारः षोडशाङ्गुल इष्यते॥७॥ नासावंशस्य देयं स्यात् षोडशाङ्गुलमिष्यते । विस्तारस्यङ्गुलः प्रोक्तो नासिका चतुरङ्गुला ॥ ८ ॥ नासापुटस्य विस्तारो द्यङ्गुलः परिकीर्तितः। पुटयोरन्तरं प्रोक्तमूर्ध्वभागे षडङ्गुलम् ॥ ९॥
* इत ऊर्ध्वं क-ख-मातृकयोः सप्ताष्टश्लोकलेखनपर्याप्तं तालपत्रमलेख दृश्यते।