________________
मृल्लेपनम् ]
एकोनविंशोऽध्यायः ।
छित्वा तु मृच्चतुर्थीशं युक्त्वा सम्मर्दयेन्मुहुः । रज्ज्वावृतास्थिबाह्ये तु तन्मृदालेपयेत् पुनः ॥ २३ ॥ तस्मिञ्छुष्के रज्जुबन्धं ततो मृल्लेपनं पुनः । मृदनं चन्द्रनेत्राग्निमात्रं योग्यवशाद् भवेत् ॥ २४ ॥ एवं निरीक्ष्य कर्तव्यं मृल्लेपनमतः शनैः । तत्तदङ्गप्रदेशेषु शूलबाह्यगतं धनम् ॥ २५ ॥ चतुरंशैर्विभज्यात्र प्रथमांशावसानकम् । मृल्लेपं त(द) नूपं तत्तद्वाह्येऽशं तु मिश्रकम् ॥ २६ ॥ तद्वा ( हु ? ह्य) गतमेकांशं जाङ्गलाख्यमुदाहृतम् । तत्तद्देशमृदेनैव तत्तद्भागं समालिपेत् ॥ २७ ॥ कल्केन पूरयेच्छेषं कल्कनिर्माणमाचरेत् । अतिकृष्णतारनदीशर्करया समम् (१) ॥ २८ ॥ नदीवालुकमायोज्य सुसूक्ष्मं चूर्णयेद् बुधः । कपित्थनिर्यासजलैर्मर्दयित्वा विशोषयेत् ॥ २९ ॥
पुनः कार्पासतूलेन संयुक्तं परिवेष्टयेत् । शिलापृष्ठे पुनः शोषं कृत्वा पश्चात्तु पेषयेत् ॥ ३० ॥ त्रिवारं पेषयित्वैवं तेन शेषं प्रपूरयेत् । अङ्गोपाङ्गानि संपूर्य भूषावस्त्रादिकान्यपि ॥ ३१ ॥ कल्केनैव विधायात्र सम्यक् संशोषणे सति । त्रिफलोत्थकाथजलैः सम्यगालिप्य सर्वतः ॥ ३२ ॥ शुष्के तु स्वर्णपिष्टेन लेपं कृत्वा पुनः क्रमात् । चित्रोक्तमार्गमाश्रित्य वर्णलेपं च कारयेत् ॥ ३३ ॥