SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ शिल्परत्ने [उत्तरभागः मुक्ताफलस्य चूर्णस्य पिष्टः स्यात् सितवर्णके ॥ ३३३ ॥ इति शिल्परले उत्तरभागे मृल्लेपनविधिर्नाम एकोनविंशोऽध्यायः ॥ अथ विंशोऽध्यायः। अथ देवीकुमारलक्षणम् । स्थानकानां तु देवानां देव्यः स्युः स्थानकास्तथा। आसीनास्त्वासिते देवे विपरीतं विपत्करम् ॥ १॥ देवस्य वामपार्श्वे तु देवी तत्पीठगा भवेत् ।। पीठान्तरगता वापि देवमालिङ्गय वा भवेत् ॥ २ ॥ देवस्य नासिकान्तं वा ललाटान्तमथापि वा । हन्वन्तं वा प्रकर्तव्यं देव्यायाममिहोदितम् ॥ ३॥ क्रीडापद्मं वामहस्ते कटिबन्धं तु वान्यतः। सर्वाभरणसंयुक्ता तत्तद्युक्तविभूषणैः ॥ ४ ॥ किञ्चिदेवाश्रितं वक्रं प्रसन्नमधुरं भवेत् । देवीदेवेशयोर्मध्ये कुमारं स्थापयेत्तु वा ॥ ५ ॥ हिक्कान्तं वा स्तनान्तं वा तयोर्मध्येऽष्टभाजिते । एकैकांशकहीनेन नवधा तुङ्गमाचरेत् ॥ ६ ॥ देवीबिम्बोच्चमानेन कुमारप्रतिमोन्नतम् ॥ ६३ ॥ इति शिल्परले उत्तरभागे देवीकुमारलक्षणं नाम विंशोऽध्यायः ॥
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy