________________
शिल्परत्ने
[उत्तरमागः पात्रेषु मर्दयेत् सम्यग् दशाहादिक्रमेण तु । श्रीवेष्टं गुल्गुलुं चैव कुन्दुरिकं तथैव च ॥ १२ ॥ सर्जारसं च तुल्यांशानेतान् संचूर्ण्य योजयेत् । मृत्कलांशं मृदौ तस्मिन् दधिना मर्दयेत् पुनः (१) ॥१३॥ शुण्ठी च पिप्पली चैव मरिची रजनी तथा । समांशं चूर्णयेद् विद्वान् तच्चूर्ण तु मृदा सह ।। १४ ॥ मृत्तिकाचतुर्विंशांशं योजयित्वा तु मर्दयेत् । मधुक्षीरघृतैरेवं मर्दयेच्च पुनस्तथा ॥ १५ ॥ कपित्थबिल्वनिर्यासचूर्णों द्वौ समतां कुरु । मृदः पञ्चदशांशेन तच्चूर्णेन विमर्दयेत् ॥ १६ ॥ तैलेनासिच्य संमर्च पुनः कुङ्कमचन्दनौ । हरितालकुष्ठकर्पूरागरुगोरोचनानि च ॥ १७ ॥ समं संचूर्ण्य मृत्स्नायां त्रिंशांशं योजयेत् पुनः । अतसीकाष्ठजस्नेहसंयुक्तं तु विमर्दयेत् ॥ १८ ॥ स्वर्णराजतचूर्ण च नदीसागरसम्भवम् । कुलीरावासवल्मीकहलस्थलसमुद्भवम् ।। १९ ॥ सस्यमूलोक्षशृङ्गेभदन्तजामृत्तिकारजः । यथालाभं तु संगृह्य नानागन्धसमन्वितम् ॥ २० ॥ संयोज्याथ मधूकत्वकषायजलसंयुतैः।। कपित्थबिल्वनिर्यासैः सम्मर्च दिनपञ्चकम् ॥ २१ ॥ नीत्वा पश्चान्नालिकेरफलपकत्वचा पुनः। सारमेकाकुलायामं सार्धं वा व्यङ्गुलं तु वा ॥ २२ ॥