________________
रज्जुबन्धनम् ] अष्टादशोऽध्यायः ।
अलम्बुषा मेमूलान्ता गुदान्ता कुहू भवेत् । नाभिमध्यावसानं तु शङ्खिनीलम्बनं भवेत् ॥ २० ॥ तेष्वादौ तु चतुर्नाडी यवत्रयघनान्विता। शेषनाडीत्रयाणां तु (यवं?) चतुर्यव(घनं) भवेत्॥२१ ॥ दक्षिणावर्तिताः सर्वे द्विवर्तेते प्रकीर्तिताः (?)। प्रधाननाडीत्रितयमूलं मेट्स्य मूलके ॥ २२ ॥ तन्नाडिमूलाद् भिन्नास्तु नाडयोऽष्टादश स्मृताः। विमला घोषणी पृथ्वी वाहिनी तेजसी तथा ॥ २३ ॥ वायसी गगनी चैव मदनी रोदनी तथा । रसवादी मृदङ्गी च स्रंसिनी च तथैव च ॥ २४ ॥ शब्दस्पृशाङ्गी पूर्णा च संहारी च सवारिणी । वाहिनी तामसी ख्याता मेदमूलसमुद्भवाः ॥ २५ ।। तासामाद्यास्तु नाड्यः षड दक्षिणं पादमाश्रिताः । अन्तस्थाः षट् तथा वामपादमेव समाश्रिताः ॥ २६ ॥ अधोमुखगता विष्वक्छूलस्यास्य भवन्ति ताः । नलकाग्रे समावृत्य षण्णामग्रं तथैकवत् ॥ २७ ॥ सुषुम्नामूलमाश्रित्य शेषा वंशस्य पार्श्वतः । आरुह्य पक्षदण्डोर्ध्वं ततस्ते बाहुमूलगाः ॥२८ !। गगनी मदिनी चैव रोदनी दक्षिणे करे । रसवादी मृदङ्गी च स्रंसिनी वामबाहुगा ॥ २९ ॥ बाहुमूलं समावृत्य तदग्रं त्वेकवद् भवेत् । तदग्रादष्टशाखाः स्युर्दक्षिणेऽदक्षिणे तथा ॥ ३०॥