________________
शिल्परले
[उत्तरभागः बाहुमूलात्तलान्तं तु नाडयोऽष्टौ प्रसारिताः ।। एकीकृत्य तदग्राणि मणिबन्धावृतं यथा ॥ ३१ ॥ तथा करोतु हस्तेषु सर्वेष्वेवं समाचरेत् । प्रधाननाडयस्त्वेवं कल्पयेत् प्रतिमादिषु ॥ ३२ ॥ ताभ्यस्त्वनेकधा नाडी सर्वाङ्गं तु समावृताः । सप्ततिढिसहस्राणि नाडयः परिकार्तिताः ॥ ३३ ॥ नाडीभिस्त्वावृतं शूलं जीर्णाश्वत्थस्य पत्रवत् । नाडयस्त्विति सङ्कल्प्य तस्मादावृतनाडिकाः ।। ३४ ।। यवषट्कपरीणाहं रज्जुमापातयेद् दृढम् । पार्श्व निरन्धं रज्जुभ्यां बन्धयेद् दक्षिणावृतम् ॥ ३५ ॥ हृत्पद्मं साष्टपत्रं तु रज्जुना कारयेद् बुधः । तस्य नालं तु नाभ्यन्तं कृत्वा योज्यं सुषुम्नया ॥३६॥ जीवस्थानं तु हृत्पद्ममित्युक्तं हि महर्षिभिः । मूलमन्त्रमनुस्मृत्य रज्जुबन्धं समाचरेत् ॥ ३७॥ इति शिल्परने उत्तरभागे रज्जुबन्धलक्षणं नाम
अष्टादशोऽध्यायः ॥
अथैकोनविंशोऽध्यायः ।
अथ मृल्लेपनम् । (ला? जा)ङ्गलं च तथानूपं सम्मिश्रं च त्रिधा हि भूः । अशक्यं खननेऽत्यर्थं दृढं जाङ्गलकं स्मृतम् ॥ १॥ १. 'पाणिरन्धं तु र' क. ख. पाटः,