________________
रज्जुबन्धम् ]
अष्टादशोऽध्यायः ।
शूलस्य बिम्बवत् कृत्वा संस्कारान् गुरुरञ्जसा । जलाधिवासप्रभृतीन् प्रतिष्ठां कारयेद् बुधः ॥ ४२ ॥
इति शिल्परत्ने उत्तरभागे शूलस्थापनलक्षणं नाम सप्तदशोऽध्यायः ॥
अथाष्टादशोऽध्यायः । अथ रज्जुबन्धम् ।
एवं कृत्वा गृहीत्वाथ शूलं विधिपुरःसरम् | शुद्धिं कृत्वाधिवास्यात्र प्रतिष्ठां तु समाचरेत् ॥ १ ॥ गर्भे तु पीठिकां कृत्वा शिलयेष्टकयापि वा । तत्प्रतिष्ठावटे कृत्वा शिलामाधारसंज्ञिताम् ॥ २ ॥ षण्मात्रं स्थानके बेरे प्रतिष्ठावटयोर्द्वयोः । अगाधं व्यासमग्न्यंशं स्थानके सकले तथा ॥ ३ ॥ पीठमध्ये चतुर्मात्रागाधमेकावटं स्मृतम् । कृत्वाधारशिलायां तु रत्नन्यासं यथाविधि ॥ ४ ॥ आनीय देशिकः शूलं विधिवद् गर्भवेश्मनि । जङ्घाशूलकमूलौ व वंशशूलस्य मूलकम् (?) ॥ ५ ॥ तत्तदवटे न्यस्य सुधया वाष्टबन्धतः । आचरेन्निश्वलं शूलं दृढीकृत्य यथाबलम् ॥ ६ ॥ अथवा पूर्ववद् गर्भन्यासं कृत्वा यथाविधि । गर्भस्योपरि शूलस्य प्रतिष्ठामेवमाचरेत् ॥ ७ ॥ अथ सन्धिषु सर्वेषु ताम्रपट्टैस्तु वेष्टयेत् । शूलेऽष्टबन्धमालिप्य कारयेद् रज्जुबन्धनम् ॥ ८ ॥
2