________________
८
.
शिल्परले
[उत्तरभागा मध्योदरं त्रिधा भज्य एकांशं वंशविस्तृतम् । अष्टांशहीनमग्रस्य विशालं तत्सुवृत्तकम् ॥३१॥ बाहुपर्यन्तविस्ताराद् बाहुतत्यर्धवर्जितम् । पक्षदण्डायतं शेषं तस्यार्ध विस्तृतं भवेत् ॥३२॥ तदर्ध बहलं ख्यातं कटिदण्डं पुनस्तथा । कटितारे तु भूतांशे युगांशं तस्य दीर्घकम् ॥ ३३ ॥ शेष प्रागिव कर्तव्यमासने तु विशेषतः । आसने वंशदण्डात्तु वस्वमुलं तु योजयेत् ॥ ३४ ॥ युगांशं पृष्ठमानं तु शेषं गर्ते तु वेशनम् । जवादण्डात्तु षण्मानं योजयेत् स्थानके बुधः ॥ ३५ ॥ गर्भगर्तप्रवेशार्थमुपशूलमथोच्यते । भित्तौ मध्यं समारभ्य पक्षदण्डपुरान्तकम् ॥ ३६ ।। उपशूलायतं प्रोक्तमष्टाङ्गलततं भवेत् । वेदाङ्गुलं तु तन्नीप्रं शूलयोग्यद्रुमे बुध! ॥ ३७ ॥ शूलव्याससमं मध्यच्छिद्रं तद्विशिखान्वितम् । भित्तिमध्यात्तु शूलस्य मूलं बद्ध्वा दृढं बुध! ॥ ३८ ॥ कटिदण्डं पक्षदण्डं धृत्वा वंशाख्यशूलकम् । छिद्रे दृढतरं मन्दं तत्पुरं कीलबन्धितम् ॥ ३९ ॥ उपशूलशिखान्तं च पक्षदण्डपुरं समम् । उपशूलशिखायां तु वंशाग्रे सुषिरं कुरु ॥४॥ लोहजं दारुजं वाथै यथायुक्ति यथा दृढम् । बिम्बास्थि शूलमाख्यातं तस्मादुक्तं समाचरेत् ॥ ४१ ॥ १. 'थ तत् कीलं यथा' ख. ग. पाठः.