________________
लेप्यबिम्बे शूललक्षणम्] सप्तदशोऽध्यायः । अन्ते हीनवितानमारचयतु ब्रह्मोपलान्तायतं तुर्याभं सकलेषु वैधसमिदं वृत्तं क्वचिच्चैश्वरम् ॥६६ ।। इति शिल्परले उत्तरभागे किरीटकटकादिलक्षणं नाम
षोडशोऽध्यायः ॥
अथ सप्तदशोऽध्यायः ।
अथ लेप्यबिम्बे शूललक्षणम् । लेप्यबिम्बे प्रकर्तव्ये कारयेन्चलमादितः । तत्तदङ्गान्तरङ्गस्थमस्थिवच्छूलमेव तत् ॥ १ ॥ खदिरायैः सारवृक्षयुक्तितः शूलमाचरेत् । शिलासंग्रहवद् दारुस्वीकारं कारयेदिह ॥ २ ॥ पुंवृक्षैरेव देवानां देवीनां स्त्रीमहीरुहैः । हिक्काधःकायतुल्यं स्याद् वंशदण्डायतं स्मृतम् ॥ ३ ॥ मध्योदरविशालस्य चतुर्भागैकविस्तृतम् । तदष्टांशविहीनं स्याद् वंशदण्डाग्रविस्तृतम् ॥ ४॥ नाभ्यन्तं चतुरश्रं तु हिक्कान्तं वसुकोणकम् । तदूर्ध्व वृत्तमाख्यातमशेषं वृत्तमेव वा ॥ ५ ॥ द्वात्रिंशदङ्गुलं दीर्घ पक्षदण्डायतं स्मृतम् । विस्तारं सार्धषण्मात्रमथ सप्ताङ्गुलं तु वा ॥ ६॥ विस्ताराध धनं प्रोक्तं पक्षदण्डस्य तस्य तु । मध्यादंशक्रमादग्रौ कृशौ स्यातां युगाङ्गुलौ ॥ ७ ॥ पक्षदण्डस्य मध्ये तुच्छिद्रं सार्धगुणाङ्गुलम् । हिक्कादण्डादधस्तात्तु पक्षदण्डोर्ध्वपार्श्वकम् ॥ ८॥