________________
शिल्लरने
उत्तरमा द्वयङ्गुलं स्याद् यथा तद्वद् वंशदण्डे तु योजयेत् । षोडशाङ्गुलमायामं कटिदण्डाभिधस्य तु ॥ ९॥ वस्वङ्गुलं तु तत्तारं घनं वेदाङ्गुलं स्मृतम् । मध्ये युगागुलं छिद्रं नाभेः पश्चाङ्गलादधः ॥ १०॥ कटिदण्डोर्ध्वपार्श्व स्याद् यथा वंशे सुयोजयेत् । पक्षदण्डाग्रयोश्चैव कटिदण्डाग्रयोस्तथा ॥ ११ ॥ हस्तपदण्डयोगार्थ कुर्याद् वक्रशिखाः क्रमात् । द्वयलं तु शिखायामं हस्तसंख्योचितं ततम् ॥ १२ ॥ पक्षदण्डविशालस्य मानेनैवं विचक्षणः । एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टादिभिः पुनः ॥ १३ ॥ तत्तबिम्बोचितकरसंख्यैः सम्यग् विभाजयेत् । शिखाव्यासं तदेकांशं मूलेऽग्रे मूलतः कृशम् ॥ १४ ॥ कटिदण्डाग्रयोर्वक्रशिखा कार्या गुणामुला । सार्धाङ्गुलं तु तत्तारं सुवृत्तं तत्समं धनम् ॥ १५ ॥ स्थानकं सकलं चेत्तु ऊरुदीर्घोर्ध्वदेशतः। अष्टाङ्गुलं समारोप्य ऊरुशूलायतं भवेत् ॥ १६ ॥ आसीने सकले चोरुदीर्घादूर्वेऽष्टमात्रकम् । अरुमूले तु सुषिरं कृत्वा तु कटिदण्डके ॥ १७ ॥ शिखायान्तु समायोज्य बध्नीयान यथावलम् । जानुमानं तथा कृत्वा ऊरु जङ्घा द्वयोरपि ॥ १८ ॥ शिखां कृत्वा तयोर्मध्ये सम्यगारोपयेद् बुधः । गुणाङ्गुलं शिखा जानौं जङ्घा चोरुसमायता ॥१९॥