________________
शिरुपरने
[उत्तरभागः चापायामाष्टभागोनं रज्जुदीर्घमुदाहृतम् । त्रिवक्रसहितं वाथ बालेन्डाकारमेव वा ॥ ५७ ॥ एकविंशाङ्गुलं बाणदीर्ध तद्विगुणं तु वा । कनिष्ठाङ्गुलिमानेन परिणाहं शरस्य तु ॥ ५८ ॥ आस्यायाम पञ्चमात्रं तत्तारं चैव तत्समम् । आस्यदीर्घसमं पुच्छं पत्रबन्धविचित्रितम् ॥ ५९ ॥ पत्राणामङ्गुलं व्यासं पृष्ठे ज्यानाभिमाचरेत् । पुष्छतारत्रिभागैकं ना(भ्या ? भ्य)गाधं च विस्तृतम् ॥६॥ टकं भान्वङ्गुलायामं कुर्याद् युक्त्या बहिर्मुखम् । मृगं बहिर्मुखं वाथ कुर्यादन्तर्मुखं तथा ॥ ६१॥ द्वादशाङ्गुलमायामं तस्योच्चं युक्तितश्चरेत् । द्वादशाङ्गुलविस्तारं चक्रं शङ्ख तथैव च ॥ ६२ ॥ डमरोर्दीर्घविस्तारे वसुपञ्चाङ्गुलान्विते । मध्यं गुणागुलं व्यासमायामं चैव तत्समम् ॥ ६३ ॥ वलयद्वयसंयुक्तं चर्मसूत्रादिसंयुतम् । नवाङ्गुलं तु विस्तारं तारादर्धं त्रिपादकम् ॥ ६४ ॥
उच्चं कमण्डलोः कुर्याद् यथाकारं तथैव च । पद्मं तालसमुच्छ्रयं द्विगुणविस्तारं च षोढा कृते
मूले पट्टमिलांशतो द्वितयतो वाधस्तनाष्टच्छदम् । अज़यूनप्रथमब्जमध्यमुपरिष्टादष्टपत्रं त्रिभि
आँगैः पट्टयुतं करोतु कमलेनामात्र पीठोच्छ्यः ॥६५॥ विंशत्या प्रतिमामुलैः प्रविततं वृन्ते तया सैकया
नालं सद्वितयापि वाथ विततेरष्टाचलाङ्गांशकैः । १. 'पा' ग. पाठः,