________________
23
* Prasad Manjari *
प्रतिष्ठामंडपः
पासादाने तथैशान्ये उत्तरे मंडपंशुभम् । त्रिपंच सप्तनंदैका दशविश्व करान्तरे ॥१७२॥ मंडपः स्यात् करैरष्टा दशसूर्य कलाभित्तैः । षोडश हस्ततः कुंडे वशादधिक इष्यते ॥१७३।।
स्तंभः षोडश संयुक्तं तोरणादि विराजितम् । मंडपे वेदिका मध्ये पंचाष्ट नव कुंडकम् ।।१७४॥ इस्तमात्र भवेत् कुंडं मेखलायोनिसंयुतम् । आगमैर्वेद मंत्रैश्च होमर्याद् विधानतः ॥१७५।।
अयुते हस्तमात्र हि लक्षार्धेतु द्विहस्तकम् । त्रिहस्त लक्षहोमे स्यात् दक्षलक्षे चतुष्करम् ॥१७६।। त्रिंशलक्षे पंचहस्त' कोटयर्धे षट्कर मतम् । अशीति लक्षेऽद्रिकर कोटिहोमेऽष्ट हस्तकम् ॥१७७॥
ग्रहपूजा विधानेन कुंडमेकंकर भवेत् । मेखला त्रितयं वेद रामयुग्मागुलैः क्रमात् ॥१७॥ एकद्धि त्रिकर कूर्याद वेदिको परिमंडलम् । ब्रह्मा विष्णु वीणां तु सर्वतोभद्रमिष्यते ॥१७९।।
भद्रं तु सर्वदेवानां नवनाभिस्तथा त्रयम् । लिङ्गोद्भव शिवस्यापि लत्तालिङ्गोद्भवं तथा ॥१८०॥
भद्रं गौरी तिलके च देवीनां पूजन हितम् । अर्धचंद्रं तडागेषु चापाकार तथैव च ॥१८॥