________________
काश्यपशिल्पे सप्तविंशः पटलः । सार्धदशं तु पादोच्च प्रस्तरोश्चं शिवांशकम् । साधीशं गलमानं तु गुणांशं शिखरोदयम् ॥ २० ॥ एकांश स्थूपिमानं तु जपताना(यस्थान) मुदाहृतम् । रुद्रांशं हयंतुङ्गतु सपादांशं धरातलम् ।। २१ ॥ सार्धदयंशं तु पादोच्चं प्रस्तरोचं शतांशकम् । प्रत्यर्थीशं तु कण्ठोच्चं सार्धस्यांशं तु शीर्षकम् ॥ २२ ॥ शेष स्यू(स्तू)प्युदयं ख्यातं तद्भूतं सदनं भवेत् । उत्तुङ्ग सप्तभागे तु व्योमांशं तु धरातलम् ।। २३ ।। पक्षांशं पादतुङ्ग तु शिखरोच्चं गुणांशकम् । स्तूप्यो(प्यु)त्सेधं तथैकांशमेतत्स्यात्सर्वकामिकम् ॥ २४ ॥ शान्तिकाग्रुदयोपेतं हमैं (भ्य)गुण्यं क्रमोदयम् । विश्च(प)रीते त्रिपादी(दानां) विपणि(बैपरी)त्यं समावहेद ॥२५॥ तस्माद्भित्त्यादिगुण्यं च उदयं चैकमाचरेत् । रुद्रांशं सदनोत्सेधं तलमेकांशमानतः ॥ २६ ॥ दयंशं च चरणायाम प्रस्तरं च शिवांशकम् । उपग्रीवं तु साशं त्रिपादं प्रस्तरोदयम् ॥ २७ ॥ सपादांशं गलोत्सेधं सार्धव्यंशं तु शीर्षकम् । एकांशं स्थू(स्तू)पिमानं तु एवं चैवाद्भुतं स्मृतम् ।। २८ ।। अथवाऽष्टौ द्विरष्टौ च धात्वष्टाभूत्तथा कृतम् । पक्षराधारमानं च मञ्चोपग्रीवमञ्चकम् ॥ २५ ॥ गलमूर्ध्नि शिवामानं पाने चाष्टनवांशकम् । सोपग्रीवसमं चैतदेकभूरेकविन्यसेत् ॥ ३० ॥ अर्व मञ्चोपरिष्टं तु चतुष्कोणैः ससुवन । अथरा(वाऽ)ष्टनवांशे तु ससप्तांशं सविस्तरम् ।। ३१ ॥ विविधं स्यात्समायुक्तं कर्णकूटमुदाहृतम् । कर्णकूटसमायुक्तं हीनं वा तद्विशेषतः ॥ ३२ ॥ प्रविष्टानादिसर्वाङ्गं प्रग्रीवं च प्रकप्लयेत् । वृत्तग्रीवसमायुक्तं तथैव शिखरं घनम् ।। ३३ ।। शिखरे तु महानासी चतुरस्रा महानि(दि)शि । दिशि भद्रायतं वाऽऽस्ते मञ्चेऽल्पा नासिका कला ।। ३४ ।।