________________
काश्यपशिल्पे समाविंशः पटलः ।
प्रासादावेशनं श्लेपा(श्रेष्ठं) दण्डं वाऽवधिदण्डकम । द्विदण्डं वा प्रवेशं तु मानसूत्रं द्विजोत्तम ॥ ५ ॥ अन्तरालसमायुक्तं युक्तसाग-संयुतम् ।। सावकाशान्तरालं च दीर्घ द्वित्रिचतुष्टयम् ॥ ६ ॥ सोपानं पाश्वयोः कुर्याद्गजहस्तविभूषितम् । प्रासादभित्तिविस्तारतुल्यं वाऽत्रिपादकम् ।। ७ ॥ अन्तरालस्य भित्तेश्च व्यासाः स्युमण्डपे तथा ।। कूटकोठादियुक्तं वा हनिं वा मुखमण्डपम् ।। ८॥ त्रिवर्गसंहितं वाऽपि तोरणाद्यैर्विचित्रितम् । पकानेकतलं वाऽथ कर्तव्य मुखमण्डपम् ॥ ९ ॥ ४यंताराग्निभागैकं गर्भहस्य विस्तरम् । पञ्चभागेऽग्निभागं च वेदांशं सप्तभागिकम् ॥ १० ॥ द्वारांशे भूतभागं तु अर्काशं रुद्रभागिके ।। अयोदशांशे वस्त्रंशं दर्शवस्वांशमागिके ॥ ११ ॥ सपादं च नवांशं च व्यासोद्धं त्रि(चं हि) द्विजोत्तम । गर्भहस्य विस्तारो नवधा परिकीर्तितः ॥ १२ ॥ शेषभित्तिविशालं स्यास्परितः करायेद्वधः । एकद्वित्रिचतुष्पञ्च पङ्किः स्यादेकभागिके ॥ १३ ॥ हम्योच्चं वसुधा भज्य एकांशं हि तलोचनम् । द्विभागं चरणायाम प्रस्तरस्यकभागता ।। १४ ॥ गलोचं त्वेकभागेन द्विभागं शिखरोदयम् । एकांशं स्तृपितुङ्ग तु कल्प्यैवं शान्तिकं भवेत् ॥ १५ ।। एकांशरहितं शेष पञ्चं वा पाश्चेदेवता ।। एवं शान्तिकमाख्यातं पौष्टिकं चाधुनोच्यते ॥ १६ ॥ र.दनाचे नवांशे तु शियांशं तु तलोदयम् । अन्धे(धै)तांशसमायुक्तं द्वयांशं चरणायतम् ।। १७ ।। पश्चमानं तथैवांश साध्यं पादांशकं गलम् ।। सत्रिभागं द्विभागं तु शिखरोदयमीरितम् ।। १८ ॥ र.(य)पोत्सेधं तथैकांशं पौष्टिकं सदनान्वितम् । सदंतच्छे(दनोचं) दशांशैकमधिष्ठानोदयं भवेत् ॥ १९ ॥