________________
काश्यपशिल्पे सप्तविंशः पटलः । प्रस्तरेऽष्टाल्पनासी वा जयद्वंद्वमुदाहृतम् । तदेव कर्णकूटाभ्यां षट्पञ्चाशे शिवी(वे)तथा ॥ ३५ ॥ नागरेऽत्युचितं कण्ठकूटाकारं प्रकल्पयेत् । कण्ठकूटसमा मध्या भद्रं तद्भद्रनासिका ।। ३६॥ अन्तरालं च तत्तुल्यं क्षुद्रं पञ्चांशसंयुतम् । अभद्रं वाऽथ भद्रं वा कूटं वा भद्रनासिका ।। ३७ ।। भद्रा नासी विशालं वा मध्ये भद्रं विशालकम् । त्रिचतुश्वषट्सप्तभागं वा सदनस्त(नांश)कम् ॥ ३८ ॥ कृत्वैकांश द्विभागं वा मध्ये भद्रविशालकम् । त्रिभागं च विशालं तु मध्ये मद्रय(व)शालयाः ॥ ३९ ।। दण्डं वाऽध्यर्धदण्डं वा द्विदण्डं वाऽथ निर्गतिः । यथेष्टं शिखरं कण्ठश्रीमोगान्तमुदाहृतम् ॥ ४० ॥ वस्वर्ण पट्टसंयुक्तं स्वतारे कुड्यपादयोः । स्वतार कुख्यपादाढयानिष्क्रान्तरहित तु वा ।। ४१॥ श्रीभन्तदि(द्रमिति विख्यातं सर्वदेवात्मकं परम् । तदेव सदने बाह्ये मध्ये भद्रगुतं तु वा ।। ४२ ।। तोरणैर्जालकादयं तच्छ्रीविशालटुमान्वितम् । सदेव देविकाकण्ठं शिखरं च घटं तथा ॥ ४३ ॥
घस्वङ्गः पादसंयुक्तं चतुर्दिभागनासिकम् । पचारो (चतस्रो)नासिकाचा(था)ल्पाच्छि(रूपाः शि)खरे तु विदिविस्थताः
पादं प्रत्यल्पनासाढचं स्वस्तिवन्धं तदुच्यते । तदेव मध्यभद्रं च कर्णकूटविहीनकम् ।। ४५ ॥ सुशोभनावह ख्यातं सर्वदेवप्रियावहम् । शिखरे तु कृता नासिं प्रस्ताराष्टौ द्विरधा ॥ ४६ ॥ युगानं शिखरं कण्ठं वैदिकं चैव श्रीकरम् । सदेष शिखरे चाष्टावल्पनासिसमन्वितम् ।। ४७ ॥ महामास्यपरे कोष्ठसंयुतं शीर्षगं(क) भवेत् । मासिकाविस्तृतं दण्डद्वयं पाऽऽपि त्रिदण्डकम् ॥४८॥ कोशीपसमाख्यातमुस्सेधं नासिकासमम् । विदिक्षु भद्रनासादयं शिखरं परिकल्पयेत् ॥ ४९ ।।