________________
[३] दिष्टमपि न तावता गीतायाः कर्ता श्रीकृष्ण उच्यते किंतु वेदव्यासः एव तत्कर्ता स्मर्यते लोके । अत एवोक्तं भगवद्गीताशांकरभाष्य आचार्यचरणः-तं धर्मे भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञो भगवान्गीताख्यैः सप्तभिः श्लोकशतै. रुपनिबबन्धेति । तद्वदेतच्छिल्पशास्त्रार्थो भगवता महेश्वरेणोदीरितोऽपि न तावताऽस्य शिल्पशास्त्रस्य महेश्वरः कर्ता भवितुमर्हति किंतु लोकप्रसिद्धया कश्यप एव कर्तेत्युच्यते । प्रतिपटलसमाप्तौ च काश्यपशिल्पे, इत्युल्लेखदर्शनेनापि तथैवानुमीयते । अत एवास्य शास्त्रस्य काश्यपसंहिता काश्यपशिल्पमिति च व्यवहरन्ति तज्ज्ञाः । किंच योऽयं शिल्पशास्त्रार्थो महेश्वरेण कश्यपायादीरितः सो तिसंक्षिप्तयैव गीर्वाणवाप्योपदिष्ट इति मन्ये । संक्षिप्तत्वं च बहुलार्थवत्त्ववि. शिष्टसंकुचितपदवाक्यघटितत्वम् । वचनार्थकशब्दसमभिव्याहारे संक्षेपशब्दस्य तादृशार्थकत्वस्यैव बहुशो दृष्टत्वात् । तादृशी च वाणी सूत्ररूपा । तथाच श्रूयते----
अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥ इति । एवं च सूत्रीभूतभाषया शिल्पशास्त्रार्थो महेश्वरेणोदीरतः । युज्यते चैषा कल्पना । यत:-महार्थमल्पग्रन्थं च संक्षेपाद्वद मे प्रभो, इति ग्रन्थारम्भे ग्रन्थकारेण स्वयमेवोक्तत्वात् । ततश्च संक्षिप्तपदवाक्यघटितात्सूत्रौघात्कुश अधिषणानां बोद्धृ यद्यपि निःसंदिग्धतया सुलभतया च यथावदर्थावबोधः संजायेत तथाऽपि मन्दमतीनां तेषां तस्मात्तथाऽर्थावबोधो न स्यादित्यनुसंधाय लोकोपतये कश्यपमहर्षिणा तादृशार्थानुसंहिता सुवोधपदवाक्यघटिता सुविस्तृताःनुष्टुप्छन्दोमयी गीर्वाणवाणी व्यरचीत्यमुप्य शिल्पशास्त्रस्य कर्तृत्वं कश्यपे स्थिरी भवति ।
अथेदमिदानी चिन्त्यते कदाःस्य शिल्पशास्त्रस्यास्मिञ्जगति प्रवृत्तिरभूदिति । तत्र अल्पायुप्यादिधर्माणां नराणामित्युक्तत्वान्मुख्यतो मनुष्यप्राणिनां सुखसाधनमिदं शास्त्रम् । अनुभवश्चात्र साक्षीति न कश्चिद्विवादः । यद्यप्येतच्छास्त्रप्रतिपाद्यो वास्तुरूपोऽर्थः पशुपक्ष्यादीनां तिरश्चामपि सुखसाधनं भवितुमर्हति तथाऽपि न तेषां सुखसाधनत्वेन नियतः । यतस्तेऽयत्नसिद्धतरुगुल्मवृक्षजालगिरिकन्दर्यादि