________________
[ ४ ]
संश्रयणेनापि वर्षातपौ निवारयन्ति । न चैते शास्त्रार्थावगमक्षमबुद्धयः । नैव वा तादृशशिरूपकरणे कदापि शक्ताः । तस्मान्मनुष्यप्राणिसृष्ट्युत्तरकालमस्य शास्त्रस्य जगति प्रवृत्ति: सिव्यति ।
अथ मनुष्यप्राणिसृष्टिः सृष्टिक्रमेण कदार्तिक तिर्यक्प्राणिसृष्ट्युत्तरं मनुष्यप्राणिसृष्टिरथवा मनुष्यप्राणिसृष्ट्युत्तरं तिर्यक्प्राणिसृष्टिरिति विचार्यते । तत्र कार्यकरणसंघातस्य देहस्य भौतिकत्वान्महाभूतोत्पत्त्यनन्तरं प्राणिसृष्टिरिति तात्रनिर्विवादम् । यद्यपि सृष्टिप्रतिपादकश्रुतिषु पञ्चमहाभूतोत्पत्तिविषये आत्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः इत्यादिना क्रमः श्रूयते तथाऽपि भौतिकसृष्टिविषये विशेषतः प्राणिसृष्टिविषये न श्रुतौ क्रमः स्पष्टं प्रतीयत इति ब्रुवाणास्तूष्णीमासते । नवीनास्तु युक्तिमालम्ब्य तिर्यक्सृष्ट्युत्तरं तत्रापि वानरसृष्ट्युत्तरं मनुष्यसृष्टिं प्रतिपादयन्ति । तदित्यम् - प्राणिषु गण्डूपदमारभ्योत्तरोत्तरं क्रमेण महत्सु अधिकाधिकं बुद्धितारतम्यमनुभूयते । तारतम्यस्य पराकाष्ठा च मनुष्येषु । यद्यपि केचित्पशवः सिंहव्याघ्रगजादयो मनुष्यापेक्षयाऽपि स्थूलाः संलक्ष्यन्ते तथाऽपि तदपेक्षया मनुष्या एवं महान्तः । यतस्ते सिंहव्याघ्रादीन्पराक्रमशालिनोऽपि युक्तिप्रयुक्त्यादिभिः स्ववशमानयन्तीति लोके दृश्यते । एवं स्थिते यदा भगवतः परमेश्वरस्य बहु स्यां प्रजायेयेति सिसृक्षा समजनि तदा स्वनाभिकमलात्स्रष्टारमुद्भाव्य तमाज्ञापितवान्प्रभुः प्रजाः सृजेति । स च विधाता सर्वास्वपि दिक्षु दृष्टिं दत्त्वा सर्जनोपायमन्विष्यमाणो गिरिनदीसमुद्रादिकां सुविशालां पञ्चमहाभूतमृष्टिं विलोक्य बभ्राम | यदा तु न लेभे सर्जनोपायमथ शोकाकुलो भूत्वा भगवन्तं शरणमुपगम्य सर्वथा मूढोऽहं बालकस्ते त्रायस्व मां भ्रान्तमिति प्रणिपत्य व्यजिज्ञपदज्ञोऽहं न जाने सर्जनमार्गे कथं प्रजाः सृजेय तत्प्रसीदतु मां भगवानिति । संतुष्टः परमेश्वरस्तस्मै साङ्गोपाङ्गं वेदराशिं समर्पितवान् । ततस्तदर्थमनुसंधाय सृष्टिं विरचयितुं प्रथमत एव प्रवृत्तः स्रष्टा न साधीयसीं सृष्टिं निर्मातुं शशाक | लोकेऽपि पटादनिर्मातुं प्रवृत्तः कुविन्दादिरभ्यासपाटवाभावान्न प्रथमतः साधीयसः पटानुत्पादयितुं शक्नो तीति दृश्यते । क्रमेण चाभ्यासपाटवातिशयवशात्तत्तत्कार्यविशेषकरणसमर्थान्पटान्महार्हान्निर्मिमीते । तथाऽयमपि विधातोत्तरोत्तरमभ्यासपाठवातिशयवशाद्वेदशास्त्रेतिहासार्थानुसंधानेन तत्प्रतिपाद्यार्थभूत शिल्पाद्यनुष्ठानसमर्थी मनुष्यसृष्टिं